________________
Shri Mahavir Jain Aradhana Kendra
२ द्विताया वगः ।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजानघण्टुसाहतः ।
( ३२ ) चविका ।
चविका कोलवल्ली च चव्यं चविकमेव च ।
गुणाः चव्यं च कटुकोष्णं स्याज्जन्तुहृद्दीपनं परम् । कफोद्रेकहरं वातप्रकोपशमनं भवेत् ।। ७७ ।।
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः
८५
चव्यकं चविका चव्यं वशिरो गन्धनाकुली । वल्ली च कोलवल्ली च कोलं क्रुकरमस्तकम् ।। ११५ ।। तीक्ष्णा कॅरिकणा वल्ली कृकरो द्वादशाभिधा । गुणाः चव्यं स्यादुष्णकटुकं लघु रोचनदीपनम् ।। ११६ ।। जन्तूद्रेकापहं कासश्वासशूलार्तिकृन्तनम् ।
श्रेयसी (हस्तिपिप्पली ) ( चविकाविशेषः ) || १५ ॥
तस्याः ( चविकायाः ) फलं विनिर्दिष्टं श्रेयसी गजपिप्पली । अन्यच्च — तत्फलं श्रेयसी हस्तिमगधा गजपिप्पली । गजकृष्णा करिकणेभकणा द्विपपिप्पली ॥ ७८ ॥
गुणाः -- गजपिप्पलिका स्वादुः कटुरुष्णा च कीर्तिता । वलासं हन्ति वातेन सार्धं जन्तुजयप्रदा ॥ ७९ ॥
राजनिघण्टौ पिप्पल्यादिः पष्ठो वर्ग:
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः
गजोषणा चव्यफला चव्यजा गजपिप्पली । श्रेयसी छिद्रवैदेही दीर्घग्रन्थिश्च तैजसी ॥ ११७ ॥ वर्तुली स्थूलवैदेही ज्ञेया चेति दशाभिधा ।
गुणाः- गजोषणा कटुष्णा च रूक्षा मलविशोषणी ।। ११८ ।। बलासवातत्री च स्तन्यवर्णविवर्धिनी ।
सैंहली (पिप्पलीविशेषः) ॥ १६ ॥
सैंहली सर्पदण्डा च सर्पाङ्गी ब्रह्मभूमिजा । पार्वती शैलजामूलं लम्बवीजा तथोत्कटा ।। ११९ ।। अद्रिजा सिंहलस्था च लम्बदन्ता च जीवला । जीवला जीवनेत्रा च कुरवी षोडशाद्दया ।। १२० ।।
गुणाः – सैंहली कटुरुष्णा च जन्तुघ्नी दीपनी परा । कफश्वाससमीरार्तिशमनी कोष्ठशोधनी ॥ १२१ ॥
For Private and Personal Use Only
१ . ढ. कुटलमस्तकम् । ट. कटुलमस्तकम् । २ झ. करिणिका । ३ ट. जीवाली । ४ ज. द.
कुनखी ।