________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४
धन्वन्तरीयनिघण्टुः- [शतपुष्पादिकोगुणाः-वन्यजीरः कटुः शीतो व्रणहा पञ्चनामकः ॥ ७२ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः
बृहत्पाली क्षुद्रपत्रोऽरण्यजीरः कणा तथा । गुणाः–वनजीरः कटुः शीतो व्रणहा पञ्चनामकः ॥ १०७ ॥ जीरकादिगुणाः—जीरकाः कदुकाः पाके कृमिना वह्निदीपनाः । जीर्णज्वरहरा रुच्या व्रणहाध्माननाशनाः ॥ १०८॥
(३०) पिप्पली। पिप्पली मागधी कृष्णा चपला तीक्ष्णतण्डुला । उपकुल्या कणा श्यामा कोला शौण्डी तथोषणा ॥ ७३ ॥ ___ गुणाः—पिप्पली कटुका स्वादुर्हिमा स्निग्धा त्रिदोषजित् । तृड्ज्वरोदरजन्त्वामनाशनी च रसायनी ॥ ७४ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःपिप्पली ककरा शौण्डी चपला मागधी कणा । कटुवीजा च कोरङ्गी वैदेही तिक्ततण्डुला ॥ १०९ ॥ श्यामा दन्तफला कृष्णा कोला च मगधोद्भवा । उषणा चोपकुल्या च स्मृत्याहा तीक्ष्णतण्डुला ॥ ११० ॥
गुणाः-पिप्पली ज्वरहा वृष्या स्निग्धोष्णा कटुतिक्तका । दीपनी मारुतश्वासकासश्लेष्मक्षयापहा ॥ १११ ॥
(३१) मूलम् । मूलं च पिप्पलीमूलं ग्रन्थिकं चविकाशिरः । कोलमूलं कैटुग्रन्थि सर्वग्रन्थिकमूषणम् ॥ ७५ ॥
गुणाः-कटूष्णं पिप्पलीमूलं श्लेष्मसंघातनाशनम् । वातोच्छित्तिकरं हन्ति कृमीन्वह्निमदीप्तिकृत् ॥ ७६ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:ग्रन्थिकं पिप्पलीमूलं मूलं तु चविकाशिरः। कोलमूलं कटुग्रन्थि कटुमूलं कटूषणम् ॥ ११२॥ सर्वग्रन्थि च पत्राव्यं विरूपं शोणसंभवम् । सुग्रन्थि ग्रन्थिलं चैव पर्यायाः स्युचतुर्दश ॥ ११३ ॥
गुणाः-कटूष्णं पिप्पलीमूलं श्लेष्मकृमिविनाशनम् ।दीपनं वातरोगघ्नं रोचनं पित्तकोपनम् ॥ ११४ ॥
१ ख. ग. के वटिका । २ ख. ग. 'रः । कोल । ३ ग. कणा । ४ क. ङ. 'तोपशमनं है । ५ क. 'मीनग्निप्र । ६ ट. वटिकाशिरः ।
For Private and Personal Use Only