________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Me
२ द्वितीयो वर्गः] राजनिघण्टुसहितः ।
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः-- जीरको जरणो जीरो जीर्णो दीप्यश्च दीपकः । अजाजिको वद्विशङ्खो मागधश्व नवाह्वयः ॥ १० ॥
गुणाः-जीरकः कटुरुष्णश्च वातहृद्दीपनः परः । गुल्माध्मानातिसारनो ग्रहणीकृमिहृत्परः ॥ १०१ ॥
शुक्लः ( जीरकविशेषः ) ॥ १२ ॥ शुक्लाजाजी कणा ख्याता दीर्घकः कणजीरकः । स्तन्यो दीर्घकणा गौरजीरको दीर्घजीरकः ॥ ६८॥ ___ गुणाः-गौराजाजी हिमा रुच्या कटुर्मधुरदीपनी । कृमिना विषहत्री च चक्षुष्याऽऽध्माननाशिनी ॥ ६९ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःगौरादिजीरकस्त्वन्योऽजाजी स्याच्छेतजीरकः । कणाहा कणजीर्णा च कणा दीप्यः सितादिकः॥१०३॥ ज्ञेया दीर्घकणा चैव सिताजाजी नवाया।
गुणाः-गौराजाजी हिमा रुच्या कटुमधुरदीपनी । कृमिन्नी विषहत्री च चक्षुष्याऽऽध्माननाशिनी ॥ १०३ ॥
कृष्णः (जीरकविशेषः ) ॥ १३ ॥ कृष्णाजाजी तु जरणा सुगन्धः कणजीरकः । काश्मीरजीरका वर्षा कालिः स्यात्कालपेशिका ॥ ७० ॥
गुणाः-जरणा कटुरुष्णा च कफशोफनिकृन्तनी । रुच्या जीर्णज्वरनी च चक्षुष्या ग्राहिणी परा ॥ ७१ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःकृष्णा तु जरणा काली बहुगन्धा च भेदिनी । कटुभेदिनिका रुच्या नीला नीलकणा स्मृता ॥ १०४ ॥ काश्मीरजीरका वर्षा काली स्यादन्तशोधनी । कालमेषी सुगन्धा च विज्ञेया षोडशाभिधा ॥ १०५ ॥ ___ गुणाः-जरणा कटुरुष्णा च कफशोफनिकृन्तनी । रुच्या जीर्णज्वरनी च चक्षुष्या ग्रहणी परा ॥ १०६ ॥
बृहत्पाली (जीरकविशेषः ) ॥ १४ ॥ वृहत्पाली सूक्ष्मपत्रा वन्यजीरः कणा तथा ।
१ झ. करजी । २ झ. नी । पटु। ३ ट. स्याद्वान्त ।
For Private and Personal Use Only