SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८२ धन्वन्तरीयनिघण्टुः [ शतपुष्पादिको गुणाः - स्निग्धोष्णं दाडिमं हृद्यं कफपित्तविरोधि च । द्विविधं तच्च विज्ञेयं मधुरं चाम्लमेव च ॥ ६२ ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग: Acharya Shri Kailassagarsuri Gyanmandir दाडिमो दाडिमीसारः कुट्टिमः फलशाडवः । करको रक्तबीजश्च सुफलो दन्तबीजक: ।। ९३ ।। मधुबीजः कुचफलो रोचनः शुकवल्लभः । मणिवीजस्तथा वल्कफलो वृत्तफलश्च सः ॥ ९४ ॥ सुनीलो नीलपत्रच ज्ञेयः सप्तदशाह्वयः । गुणाः- दाडिमं मधुरमम्लकषायं कासवातकफपित्तविनाशि । ग्राहि दीपनकरं च लघुष्णं शीतलं श्रमहरं रुचिदायि ।। ९५ ।। दाडिमं द्विविधमीरितमायैरम्लमेकमपरं मधुरं च । तत्र वातकफहारि किलाम्लं तापहारि मधुरं लघु पथ्यम् ।। ९६ ।। ग्रथान्तरे - अल्मं कषायं मधुरं वातघ्नं ग्राहि दीपनम् । २८) धान्यकम् । धान्यकं धान्यका धान्या धानी धानेयकं तथा । कुस्तुवुरुवालका च च्छेत्रधान्यं वितुन्नकम् ।। ६३ ।। गुणाः- आर्द्रा कुस्तुम्बुरुः कुर्यात्स्वादुः सौगन्ध्यहृद्यताम् । सा शुष्का मधुरा पाके स्निग्धा वृहदाहनाशिनी ।। ६४ ।। धान्यकं कासतृट्छर्दिज्वरहच्चक्षुषो हितम् । कषायं तिक्तमधुरं हृद्यं रोचनदीपनम् ।। ६५ । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग: धान्यकं धान्यजं धान्यं धानेयं धनिकं तथा । कुस्तुम्बुरुचावलिका छत्रधान्यं वितुन्नकम् ॥ ९७ ॥ सुगन्धिः शाकयोग्यच सूक्ष्मपत्रो जनप्रियः । धान्यवीजो वीजधान्यं वेधकं षोडशाह्वयम् ॥ ९८ ॥ गुणाः- धान्यकं मधुरं शीतं कषायं पित्तनाशनम् । ज्वरकासतृषाछाकफहारि च दीपनम् ॥ ९९ ॥ ( २९ ) जीरकम् । जीरकं दीर्घकं हृद्यमजाजी दीप्यमागधम् । मनोज्ञं वरुणं रुच्यं पीताभं पूज्यमानकम् ।। ६६ ।। गुणाः - जीरकं कटु रुक्षं च वातहृद्दीपनं परम् । गुल्माध्मानातिसारघ्नं ग्रहणीकुमिहृत्परम् || ६७ ॥ १ क. ग. ङ. च्छत्रान्यं तु विन्न । २ दीपनपाचनम् । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy