________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्वितीयो वर्गः] राजनिघण्टुसहितः।
८१ स्याद्वंशरोचना वांशी तुगक्षीरी तुगा शुभा। त्वक्षीरी वंशगा शुक्रा वंशक्षीरी च वैणवी ॥ ८५ ॥ त्वक्सारा कर्मरी श्वेता वंशकर्पूररोचना । तुङ्गा रोचनिका पिङ्गा नवेन्दुवंशशर्करा ॥ ८६ ॥
गुणाः स्याद्वंशरोचना रूक्षा कषाया मधुरा हिमा । रक्तशुद्धिकरी तापपित्तोद्रेकहरा शुभा ॥ ८७ ॥
पलाशगन्धा (वंशरोचनाविशेषः ) ॥ ११ ॥ अन्या फ्लाशगन्धा च तवक्षीरी प्रकीर्तिता । गुणाः—त्वक्षीरी मधुरा रूक्षा कषायाऽस्रारचित्रणान् । पित्तश्वासक्षयान्हन्ति कासदाहनिषूदनी ॥ ५८ ॥ तुगा क्षीरी क्षयश्वासकासन्नी मधुरा हिमा।
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःतवक्षीरं पयःक्षीरं यवजं गवयोद्भवम् । अन्यद्गोधूमजं चान्यत्पिष्टिकातण्डुलोद्भवम् ।। ८८ ॥ अन्यच्च तालसंभूतं तालक्षीरादिनामकम् । वनगोक्षीरजं श्रेष्ठमभावेऽन्यदुदीरितम् ॥ ८९ ॥
गुणाः-तवक्षीरं तु मधुरं शिशिरं दाहपित्तनुत् । क्षयकासकफश्वासनाशनं चास्रदोषनुत् ॥ ९० ॥
(२६) उपकुञ्ची। उपकुचा चोपकुञ्ची कालिका चोपकालिका । सुषवीं कुञ्चिका कुश्ची पृथ्वीका स्थूलजीरकः ॥ ५९॥
गुणाः-पृथ्वीका कटुका पाके रुच्या पित्ताग्निदीपनी । श्लेष्माध्मानहरा जीर्णा जन्तुनी च प्रकीर्तिता ॥ ६ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःदीप्योपकुञ्चिका काली पृथ्वी स्थूलकणा पृथुः । मनोज्ञा जारणी जीर्णा तरुणः स्थूलजीरकः ॥ ९१ ॥ सुषवी कारवी ज्ञेया पृथ्वीका च चतुर्दश ।
गुणाः-पृथ्वीका कटुतिक्तोष्णा वातगुल्मामदोषनुत् । श्लेष्माध्मानहरा जीर्णा जन्तुनी दीपनी परा ॥ ९२ ॥
(२७) दाडिमः। दाडिमो दाडिमीसारः कुटिमः फलशाडवः । स्वादम्लो रक्तबीजश्च करकः शुकवल्लभः॥६१॥
१ झ. "कुञ्चीकोप । २ क.ङ. वी कारवी कु। ३ क. ङ. 'लकाण्डवः । ग. 'लखाण्डवः ।
For Private and Personal Use Only