________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०
धन्वन्तरीयनिघण्टुः- [ शतपुष्पादिको
(२३) तमालपत्रम् ( पत्रजम् ) तमालपत्रं पत्रं स्यात्पलाशं छदनं दलम् । रामं तापसजं वासो गोपनं वस्त्रमंशुकम् ॥ ५२॥ गुणाः-पत्रकं कफवातार्शोहल्लासारोचकापहम् ।
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:पत्रं तमालपत्रं च पत्रकं छदनं दलम् । पलाशमंशुकं वासस्तापसं सुकुमारकम् ॥ ७९ ॥ वस्त्रं तमालकं रामं गोपनं वसनं तथा । तमालं सुरभिगन्धं ज्ञेयं सप्तदशाहयम् ॥ ८०॥
गुणाः—पत्रकं लघु तिक्तोष्णं कफवातविषापहम् । बस्तिकण्डूतिदोषघ्नं मुखमस्तकशोधनम् ।। ८१ ॥
(२४) तालीसकम् । तालीसकं तु तालीसं पत्रं तालीसपत्रकम् । नीलमामलकीपत्रं पत्राढ्यं च शुकोदरम् ॥ ५३ ॥ ___ गुणाः-तालीसं श्वासकासघ्नं दीपनं श्लेष्मपित्तजित् । मुखरोगहरं हृद्यं सुपत्रं पत्रसंवृतम् ॥ ५४॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःतालीसपत्रं तालीसं पत्राख्यं च शुकोदरम् । धात्रीपत्रं चार्कवेधं करिपत्रं घनच्छदम् ॥ ८२ ॥ नीलं नीलाम्बरं तालं तालीपत्रं तैलाह्वयम् । तालीसपत्रकस्येति नामान्याहुश्चतुर्दश ॥ ७९ ॥
गुणाः—तालीसपत्रं तिक्तोष्णं मधुरं कफवासनुत् । कासहिक्काक्षयश्वासच्छदिदोषविनाशकृत् ॥ ८४ ॥
(२५) वंशरोचना। स्याद्वंशरोचना वांशी तुङ्गक्षीरी तुगा शुभा । त्वक्षीरी वंशजा शुभ्रा वंशक्षीरी च वैणवी ॥ ५५ ॥ वंशक्षीरी स्मृता वंश्या यवजा यवसंभवा । गोधूमसंभवा चान्या षष्टितण्डुलजोद्भवा ॥ ५६ ॥
गुणाः कषाया मधुरा तिक्ता कासनी वंशलोचना। मूत्रकृच्छ्रक्षयश्वासहिता वल्या च बृंहणी ॥ ५७॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः१ झ. गोपानां । २ ङ. आमवातजि । ३ ज. ट. लताह्वयं । ४ झ. तुगाक्षी । ५ क. ङ वैष्णवी ।
For Private and Personal Use Only