________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २ द्वितीयो वर्गः ]
राजनिघण्टुसहितः ।
६९
अथ राजनिघण्टुसहितधन्वन्तरीयनिघण्टौ द्वितीयः शतपुष्पादिको वर्गः ।
( १ ) शतपुष्पा ।
शतपुष्पा मिशिघोंषां पीतिका माधवी शिफाँ। अतिच्छत्रा त्ववाक्पुष्पी शताह्वा कारवी स्मृता ॥ १ ॥
गुणाः - शताह्वा कटुका तिक्ता स्निग्धोष्णा श्लेष्मवातजित् । ज्वरनेत्रत्रणा - न्हन्ति बस्तिकर्मणि शस्यते ।। २ ।। शतपुष्पादलं चोक्तं वृष्यं मधुरगुल्मजित् । वातन्नं दीपनं स्तन्यं कफकडुचिदायकम् || ३ ||
राजनिघण्टौ शतादादिचतुर्थी वर्गः
शताह्वा शतपुष्पा च मिसिर्घोषा च पोतिका । अहिच्छत्राऽप्यवाक्पुष्पी माधवी कारवी शिफा || १ || संघातपत्रिका छत्रा वज्रपुष्पा सुपुष्पिका । शतप्रसूना बहुला पुष्पाह्वा शतपत्रिका || २ || वनपुष्पा भूरिपुष्पा सुगन्धा सूक्ष्मपत्रिका । गन्धारिकाऽतिच्छत्रा च चतुर्विंशतिनामिका ॥ ३ ॥
गुणाः शताह्ना तु कटुस्तिक्ता स्निग्धा श्लेष्मातिसारनुत् । ज्वरनेत्रव्रणघ्नी च वस्तिकर्माणि शस्यते ॥ ४ ॥
( २ ) मिश्रया ।
मिश्रेया तालपर्णी तु तालपत्री मिशिस्तथा । शालेयः स च शालीनो नाम्ना शीतशिवो मतः ॥ ४ ॥
गुणाः - तिक्ता स्वादुहिमा वृष्या दुर्नामक्षयजिन्मिशी । क्षतक्षीणहिता वल्या वातपित्तास्रदोषेजित् ॥ ५ ॥
राजनिघण्टौ शताह्वादिश्चतुर्थो वर्ग:
मिश्रेया तालपर्णी च तालपत्रा मिशिस्तथा । शालेया स्याच्छीतशिवा शालीना वनजा च सा ॥ ५ ॥ अवाक्पुष्पी मधुरिका छत्रा संहितपुष्पिका । सुपुष्पा सुरसा वन्या ज्ञेया पञ्चदशाह्वया || ६॥
गुणाः - मिश्रेया मधुरा स्निग्धा कटुः कफहरा परा । वातपित्तोत्थदोषघ्नी प्लीहजन्तुविनाशनी ॥ ७ ॥
१ . षा पौति । ख. षा शोफिका । ग. ङ. षा पोति । २ ग. मागधी । ३ ख. फा । आहिच्छत्रा ह्यवा । ४ ङ. न्यं पित्तक । ५. धनुत् ।
For Private and Personal Use Only