SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८ धन्वन्तरीयनिघण्टुः- [गुडूच्यादिः१ प्रथमो वर्गः ] ञ्जयेत् । फलं स्वादु च समारं लघूष्णं भेदि वातजित् ॥ २९८ ॥ एरण्डयुगुलं वृष्यं स्वादु पित्तसमीरजित् । राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग:श्वेतैरण्डः सितैरण्डश्चित्रो गन्धर्वहस्तकः । आमण्डस्तरुणः शुक्लो वातारिर्दीर्घदण्डकः ॥ ४४५ ॥ पञ्चाङ्गुलो वर्धमानो रुबुको द्वादशाह्वयः। रक्तैरण्डोsपरो व्याघ्रो हस्तिक! रुबुस्तथा । उरुबूको नागकर्णश्चञ्चुरुत्तानपत्रकः ॥ ४४६ ॥ करपर्णो याचनकः स्निग्धो व्याघ्रदलस्तथा । तत्करश्चित्रबीजश्च ह्रस्वैरण्डस्त्रिपञ्चधा ॥ ४४७॥ गुणाः-श्वेतैरण्डः स कटुकरसस्तिक्त उष्णः कफार्तिध्वंसं धत्ते ज्वरहरमरुत्कासहारी रसाहः । रक्तैरण्डः श्वयथुपचनः शान्तिरक्तार्तिपाण्डुभ्रान्तिवासज्वरकफहरोऽरोचकनो लघुश्च ॥ ४४८ ॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्गः स्थूलैरण्डः ( एरण्डविशेषः ) ॥ ७० ॥ स्थूलैरण्डो महैरण्डो महापञ्चाङ्गुलादिकः । गुणाः-स्थूलैरण्डो गुणाढ्यः स्याद्रसवीर्यविपक्तिपुः॥ ४४९ ॥ वर्गतरदेतदधोगतम् ॥१॥ * *वृषमेधा। वृषमेधा च मेपात्रिबस्ताविश्छगलात्रिका । गुणाः-वृषगन्धा रसे तिक्ता कपाया मधुरा कदुः । विपाकशमनी शीता लघ्वी मारुतकोपनी ॥१॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःवस्तात्री वृषगन्धाख्या मेषात्री वृत्तपत्रिका । अजात्री बोकडी चैव स्यादित्येषा षडावया ॥२॥ गुणाः–बस्तात्री स्यात्कटुरसा कासदोषविनाशिनी । वीजदा गर्भजननी कीर्तिता भिषगुत्तमैः॥३॥ गुडूच्यादिरयं वर्गः प्रथमः परिकीर्तितः । ऊर्ध्वाधोदोपहरणः सर्वामयविनाशनः ॥ इति रसवीर्यविपाकसहितेः राजनिघण्टुयुतधन्वन्तरीयनिघण्टौ गुडूच्यादिः प्रथमो वर्गः ॥१॥ * * अस्या वृषमेधायास्तथाऽस्मिन्नेव वर्गे पूर्व गतायाः (२४)चतुर्विंशतिसंख्यामितायाः शृङ्गयाश्च परस्परसंबन्धत्वादत्र वर्गान्ते संगृहीता। १ झ. वसाहः । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy