________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- [शतपुष्पादिको
(३) वचा। वचोग्रगन्धा गोलोमी जटिलोग्रा च लोमशा । अन्या श्वेतवचा मेध्या षड्ग्रन्था हैमवत्यपि ॥ ६॥
गुणाः-चमनी कटुतिक्तोष्णा वातश्लेष्मरुजापहा । कण्ठ्या च मेध्या कृमिहद्विवन्धाधमानशूलनुत् ॥ ७॥ वचाद्वयं तु कटुकं रूक्षोष्णं मलमूत्रलम् । दीपनं कफवातघ्नं मेध्यापुष्पं च पाचनम् ॥ ८ ॥ जन्तुघ्नं चोग्रगन्धं स्याल्लघु कण्ठास्यरोगजित् ।
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:वचोग्रगन्धा गोलोमी जटिलोग्रा च लोमशा । रक्षोनी विजया भद्रा मङ्गल्येति दशाह्वया ॥८॥
गुणाः—वचा तिक्ता कटूष्णा च कफामग्रन्थिशोफनुत् । वातज्वरातिसारनी वान्तिकृन्मादभूतनुत् ॥ ९॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः
मेध्या ( वचाविशेषः ) ॥१॥ मेध्या श्वेतवचा त्वन्या पद्ग्रन्था दीर्घपत्रिका । तीक्ष्णगन्धा हैमवती मङ्गल्या विजया च सा ॥ १० ॥
गुणाः-श्वेतवचातिगुणान्या मतिमेधायुःसमृद्धिदा कफनुत् । वृष्या च वातभूतक्रिमिदोषघ्नी च दीपनी च वचा ॥ ११ ॥
(४) हपुषा। हपुषा विपुषा विश्रा विश्रगन्धाऽतिगन्धिका।अपरा चाश्वत्थफला कच्छूटमा ध्वाह्ननाशिनी ॥ ९॥
गुणाः-हपुषा कटुतिक्तोष्णा गुरुर्वातबलासजित् । अर्शीसि गुल्मशूलानि हन्ति जन्तूदरैः सह ॥ १०॥ प्लीहोदरविबन्धनी शूलगुल्मार्शसां हिता ।
राजनिघण्टौ शताहादिश्चतुर्थो वर्गःहपुषा विपुषा विश्रा विश्रगन्धा विगन्धिका । अन्या चासौ स्वल्पफला कच्छुन्नी ध्वाह्ननाशिनी ॥ १२ ॥ प्लीहशत्रुर्विषनी च कफनी चापराजिता । पूर्वा तु पञ्चनाम्नी स्यादपरा सप्तधाभिधा ॥ १२ ॥
गुणाः-हपुषा कटुतिक्तोष्णा गुरुः श्लेष्मबलासजित् । प्रदरोदरविड्बन्धशूलगुल्मार्शसां हरा ॥ १४ ॥
१ छ. विश्वा मिश्र । २ ङ, कच्छुघ्नी ।
For Private and Personal Use Only