________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः
[गुडूच्यादिःगुणाः-तिक्ता कटुश्वातिबला वातघ्नी कृमिनाशनी । दाहतृष्णाविषच्छर्दिक्लेदोपशमनी परा ॥ ४३१ ॥
बला (बलाविशेषः )॥६८॥ बला चातिबला चैव महाबलबला बला । अन्या राजवला चेति बलायाः पञ्चकं मतम् ॥ २८७ ॥
गुणाः-तत्पिसवातजिद्राहि बल्यं वृष्यं च कृच्छ्रजित् । स्निग्धं मधुरमायुष्यं वातासृग्दरनाशनम् ॥ २८८॥
राजनिघण्टौ शताहादिश्चतुर्थो वर्गःमहासमझौदनिका बलाढया वृक्षारुहा वृद्धिबलाऽक्षतण्डुला । भुजंगजिह्वाऽपि च शीतपाकिनी शीता बला शीतवरा बलोत्तरा ॥ ४३२ ॥ बल्या स्वरहटी चैव व्यालजिह्वा त्रिपञ्चधा।
गुणाः-महासमङ्गा मधुरा अम्ला चैव त्रिदोषहा । युक्त्या बुधैः प्रयोक्तव्या ज्वरदाहविनाशनी ॥ ४३३ ॥
(८७) प्रसारणी। प्रसारणी सुपसरा सरणी सारणी च सा । चारुपी राजबला भद्रपर्णी प्रतानिका ॥ २८९ ॥
गुणाः-प्रसारणी गुरुस्तिक्ता सरा संधानकृन्मता । त्रिदोषशमनी वृष्या तेजाकान्तिबलप्रदा ॥ २९० ॥
राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःप्रसारिणी सुप्रसरा सारणी सरणी सरा । चारुपी राजवला भद्रपर्णी प्रतानिका ॥ ४३४ ॥ प्रवला राजपर्णी च बल्या भद्रवला तथा । चन्द्रवल्ली प्रभद्रा च ज्ञेया पञ्चदशाह्वया ॥ ४३५ ॥
गुणाः-प्रसारिणी गुरूणा च तिक्ता वातविनाशनी । अर्शःश्वयथुहवी च मलविष्टम्भहारिणी ॥ ४३६ ॥
(८८)शतावरी । शतावरी शतपदी पीवरीन्दीवरी वरी।ऋष्यप्रोक्ता द्वीपिशत्रुर्दीपिको चोर्ध्वकण्टका ॥ २९१ ॥
गुणाः-शतावरी हिमा तिक्ता रसे स्वादुः क्षयास्रजित् । वातपित्तहरा वृष्या रसायनवरा स्मृता ॥ २९२॥
१ ट. ढ. खिरिहिटी । २ झ. का खरक।
For Private and Personal Use Only