________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः] राजनिघण्टुसहितः।
__ महाबला (वलाविशेषः ) ॥६५॥ महाबलो वर्षपुष्पी तथा वाट्यायनी स्मृता । सहदेवा देवसहा पीतपुष्पी बृहत्फला ॥ २८२ ॥ __गुणाः-महाबला तु हृद्रोगवाता शोफनाशनी । शुक्रवृद्धिकरी हन्याद्विषमं च ज्वरं नृणाम् ॥ २८३ ॥ ___ राजनिघण्टौ शताहादिश्चतुर्थो वर्गः
महाबला ज्येष्ठवला कटंभरा केशारुहा केसरिका मृगादनी । स्याद्वर्षपुप्पाऽपि च केशवर्धनी पुरासिनी देवसहा च सारिणी ॥ ४२४ ॥ सहदेवी पीतपुष्पी देवाए गन्धवल्लरी । मृगा मृगरसा चेति ज्ञेया सप्तदशाह्वया ॥४२५॥
गुणाः-महाबला तु हृद्रोगवातार्श शोफनाशनी । शुक्रवृद्धिकरी बल्या विषमज्वरहारिणी ॥ ४२६॥
गाङ्गेरुकी (बलाविशेषः ) ॥६६॥ गाङ्गेरुकी नागबला खरगन्धिनिका झषा । विश्वदेवा तथाऽरिष्टा खण्डा हस्वगवेधुका ॥ २८४ ॥
गुणाः—गाङ्गेरुकी मधुराम्ला कषायोष्णा गुरुस्तथा । कटुस्तिक्ता च वातनी व्रणपित्तविकारजित् ॥ २८५ ॥
राजनिघण्टौ शताहादिश्चतुर्थो वर्गःभद्रौदनी नागबला खरगन्धा चतुष्फला । महोदया महाशाखा महापत्रा महाफला ॥ ४२७ ॥ विश्वदेवा तथाऽरिष्टा खर्वा ह्रस्वगवेधुका । देवदण्डा महादण्डा घण्टेत्याहास्तु पोडश ॥ ४२८ ॥
गुणाः-मधुराम्ला नागबला कषायोष्णा गुरुस्तथा । कण्डूतिकुष्टवातनी व्रणपित्तविकारजित् ॥ ४२९ ॥
बलिका ( वलाविशेषः ) ॥६७ ॥ वलिकाऽतिनला प्रोक्ता वाट्यपुष्पी च कङ्कता । वृष्या प्रोक्ता वृष्यगन्धा सैव भूरिवला मता ॥ २८६ ॥ गुणाः-चातपित्तापहं ग्राहि बल्यं वृष्यं बलात्रयम् ।
राजनिघण्टौ शताहादिश्चतुर्थो वर्गःवलिकातिवला बल्या विकङ्कता वाट्यपुष्पिका घण्टा । शीता च शीतपुष्पा भूरिवला वृष्यगन्धिका दशधा ॥ ४३० ॥
१ क. ला वाट्य । २ क. ङ, पुष्पा बृ।
For Private and Personal Use Only