________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः
[गुडूच्यादि:(८२) राष्णा (रास्ना) * रास्ना युक्तरसा रस्या श्रेयसी रसना रसा। सुगन्धमूलातिरसा सैव पुत्तिरसा स्मृता ॥२७०॥ _गुणाः–रास्ना तिक्तोष्णगुर्वी स्याद्विषवातास्रकासजित् । शोफवातोदरश्लेष्मशमन्यामस्य पाचनी ॥ ३७१ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः* । सुगन्धिमूला सुरसा रसाढ्याऽतिरसा दश ।। ३९७॥ गुणाः–रास्ना तु त्रिविधा प्रोक्ता मूलं पत्रं तृणं तथा । ज्ञेये मूलदले श्रेष्ठ तृणरास्ना च मध्यमा ॥ ३९८ ॥ रास्ना गुरुश्च तिक्तोष्णा विश्वातास्रकासजित् । शोफकम्पोदरश्लेष्मशमनी पाचनी च सा ॥ ३९९ ॥
(८३) अश्वगन्धा। अश्वगन्धा वाजिगन्धा कञ्चकाऽश्वावरोहकः । वाराहकर्णी तुरगी बल्या वाजिकरी स्मृता ।। २७२ ॥
गुणाः-अश्वगन्धा कषायोष्णा तिक्ता वातकफापहा । विपत्रणक्षयान्हन्ति कान्तिवीर्यवलप्रदा ॥ २७३ ॥
राजनिघण्टौ शताहादिश्चतुर्थो वर्गःअश्वगन्धा वाजिगन्धा कम्बुकाष्ठा वराहिका । वराहकर्णी तुरगी वनजा वाजिनी हयी ॥ ४०० ॥ पुष्टिदा बलदा पुण्या हयगन्धा च पीवरा । पलाशपर्णी वातघ्नी श्यामला कामरूपिणी ॥४०१॥ कालप्रियकरी बल्या गन्धपत्री हयपिया। वराहपत्री विज्ञेया त्रयोविंशतिनामिका ॥ ४०२ ॥
गुणाः-अश्वगन्धा कटूष्णा स्यात्तिक्ता च मदगन्धिका । बल्या वातहरा हन्ति कासश्वासक्षयव्रणान् ॥ ४०३ ॥
(८४) पुनर्नवा । पुनर्नवा विशाखश्च कैठिल्लः शशिवाटिका । इश्वीरः क्षुद्रवर्षाभूर्दीर्घपत्रः कठिल्लकः ॥ २७४ ॥ __गुणाः-पुनर्नवा भवेदुष्णा तिक्ता रूक्षा कफापहा । सशोफपाण्डुहृद्रोगकासोरःक्षतशूलनुत् ॥ २७५ ॥
१ क. ग. घ. ङ. च. मता । २ क. ङ. र्वी च विष । ३ च. कुठिल्लकः झ. कपिल्लकः ।
४ छ. वृश्चिकः।
For Private and Personal Use Only