________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः ] राजनिघण्टुसहितः।
राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःपुनर्नवा विशाखश्च कठिल्लुः शशिवाटिका । पृथ्वी च सितवर्षाभूर्दीपत्रः कठिल्लकः ॥४०४॥
गुणाः-श्वेता पुनर्नवा सोष्णा तिक्ता कफविषापहा । कासहृद्रोगशूलास्रपाण्डुशोफानिलातिनुत् ॥ ४०५ ॥
क्रूरः (पुनर्नवाविशेषः) ॥ ६॥ पुनर्नवोऽपरः क्रूरः सद्योमण्डलपत्रकः । श्वेतमूलो वर्षकेतुर्महावर्षाभुरुच्यते ॥ २७६ ॥
गुणाः-रक्ता पुनर्नवा तिक्ता सारिणी शोफनाशिनी । रक्तपदरदोषनी पाण्डुपित्तप्रमर्दनी ॥ २७७ ॥
राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःपुनर्नवाऽन्या रक्ताख्या क्रूरा मण्डलपत्रिका । रक्तकाण्डा वर्षकेतुलॊहिता रक्तपत्रिका ॥ ४०६ ॥ वैशाखी रक्तवर्षाभूः शोफन्नी रक्तपुष्पिका । विकखरा विषघ्नी च प्रावृषेण्या च सारिणी ।। ४०७ ॥ वर्षाभवः शोणपत्रो भौमः संमीलितद्रुमः । पुनर्नवो नवो नव्यः स्याच विंशतिसंज्ञयां ॥ ४०८ ॥
गुणाः–रक्ता पुनर्नवा तिक्ता सारिणी शोफनाशिनी । रक्तप्रदरदोषन्त्री पाण्डुपित्तप्रमर्दनी ॥ ४०९॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्ग:
नीलपुनर्नवा ( पुनर्नवाविशेषः ) ॥ ६४ ॥ मीला पुनर्नवा नीला श्यामा नीलपुनर्नवा । कृष्णाख्या नीलवर्षाभूर्नीलादिस्वाभिधान्विता ॥ ४१०॥ _गुणाः-नीला पुनर्नवा तिक्ता कटूष्णा च रसायनी । हृद्रोगपाण्डुश्वयथुश्वासवातकफापहा ॥ ४११॥
(८५) सैरेयकः। सैरेयकः सहचरः सैरेयश्च सहाचरः। पीतो रक्तोऽथ नीलश्च कुसुमैस्तं विभावयेत् ॥ २७८ ॥ पीतः कुरण्टको ज्ञेयो रक्तः कुरवकः स्मृतः ।
गुणाः-कुरण्टको हिमस्तितः शोफतृष्णाविदाहनुत् । केश्यो वृष्योऽथ बल्यश्च त्रिदोपशमनो मतः ॥ २७९ ॥ ..
१झ. ढ. शोणः।
For Private and Personal Use Only