________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः] राजनिघण्टुसहितः।
गुणाः-अपामार्गोऽरुणो वातविष्टम्भी कफनाशनः । रक्तापामार्गका शीतः कटुकः कफवातनुत् ॥ २६४ ॥ * व्रणकण्डूविषनश्च संग्राही वान्तिकृत्परः । अपामार्गः कटुस्तिक्तस्तीक्ष्णोष्णः कफनाशनः ॥ २६५॥ सिध्मोदरापचीमेहकण्ड्वर्शोन्नश्च वान्तिकृत् ।
राजनिघण्टौ शताहादिश्चतुर्थो वर्ग:अन्यो रक्तो ह्यपामार्गः क्षुद्रापामार्गकस्तथा । आघट्टको दुग्धनिका रक्तविन्द्वल्पपत्रिका ॥ ३९० ॥ गुणाः-रक्तोऽपामार्गकः शीतः कटुकः कफवातनुत् । * ॥ ३९१ ॥
(८०) तेजस्विनी। तेजस्विनी तेजवती तेजोबा तेजनीति च । अश्वघ्नी वल्कला शीता पारिजाता महौजसी ॥ २६६ ॥
गुणो:-तेजोहा श्लेष्मवातघ्नी रुच्या दीपनपाचनी ॥ ___ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः-.
तेजोवती बहुरसा कनकप्रभाऽन्या तीक्ष्णा सुवर्णनकुली लवणाग्निदीप्ता। तेजस्विनी सुरलताऽग्निफलाऽग्निगर्भा स्यात्कङ्गुणी तदनु शैलसुता सुतैला ॥३९२॥ सुवेगा वायसी तीत्रा काकाण्डी वायसादनी । गीलता श्रीफली सौम्या ब्राह्मी लवणकिंशुका ॥ ३९३ ॥ पारावतपदी पीता पीततेला यशस्विनी । मेध्या मेधाविनी धीरा स्यादेकत्रिंशदाह्वया ॥ ३९४ ॥
(८१) ज्योतिष्मती। ज्योतिष्मती तु कटभी सुवर्णलतिकति च । ज्योतिष्कायाऽग्निभासा च लवणोक्ता च दुर्जरा ॥ २६७ ॥
गुणाः—कटभी तिक्ततीष्णोक्ष्णा कफजिच्च विरेचनी । मेधाकरी वर्णकरी वण्या जठरनाशिनी ॥२६८॥ ज्योतिष्मती कटुस्तिक्ता सरा कफसमीरजित् । अत्युष्णा वमनी तीक्ष्णा वह्निबुद्धिस्मृतिप्रदा ॥ २६९ ॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःज्योतिष्मती स्वर्णलताऽनलप्रभा ज्योतिर्लता सा कटभी सुपिङ्गला । दीप्ता च मेध्या मतिदा च दुर्जरा सरस्वती स्यादमृतार्कसंख्यया ॥ ३९५ ॥
गुणाः-ज्योतिष्मती तिक्तरसा च रूक्षा किंचित्कदुर्वातकफापहा च । दाहप्रदा दीपनकृच्च मेध्या प्रज्ञां च पुष्णाति तथा द्वितीया ॥ ३९६ ॥
१ क ङ. च. तजित् । २ ग. तेजोका। ३ ख. अस्वप्ना। ४ क. ङ. च. णा:-वातश्लेमहरा कण्ठ्या रु। ५ क. ङ. दुर्भरा । ग. दुर्लभा ।
For Private and Personal Use Only