________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः
[गुडूच्यादिःगुणाः—यवतिक्ता सतिक्ताऽम्ला दीपनी रुचिकृत्परा । कृमिकुष्ठविपामात्रदोषघ्नी रेचनी च सा ॥ ३८२ ॥
(७८ ) अङ्कोटः। अङ्कोटोऽङ्कोलको रेची निर्दिष्टो दीर्घकीलकः । पीतसारस्ताम्रफलो गन्धपुष्पो निकोचकः ॥ २५८ ॥
गुणाः-अकोलः स्निग्धतीक्ष्णोणः कटुको वातनाशनः । कुकुराखुविर्ष हन्ति ग्रहजन्तुविषापहः ॥ २५९ ॥ भूतहृद्विषहच्चैव कण्ठशूलस्य शोधनः ।
राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःअकोलः कोटरो रेची गूढपत्रो निकोचकः । गुप्तस्नेहः पीतसारो मदनो गूढमल्लिका ॥ ३८३ ॥ पीतस्ताम्रफलो ज्ञेयो दीर्घकालो गुणाढयकः । कोलको लम्बकर्णश्च गन्धपुष्पश्च रोचनः ॥ ३८४ ॥ विज्ञानतैलगर्भश्च स्मृतिसंख्याभिधः स्मृतः।
गुणाः-अकोलः कटुकः स्निग्धो विषलूतादिदोषनुत् । कफानिलहरः सूतः शुद्धिकुद्रेचनीयकः ॥ ३८५ ॥
(७९) अपामार्गः ।। अपामार्गस्तु शिखरी प्रत्यक्पुष्पी मयूरकः । अधःशल्योऽथ किणिही दुर्ग्रहः खरमञ्जरी ॥ २६० ॥ स चैवोक्तः शैखरिको मर्कटी दुरभिग्रहः। पराक्पुष्पी वशीरश्च कण्टी मर्कटपिप्पली ॥ २६१ ॥
गुणाः-*अपामार्गस्तु तिक्तोष्णः कटुश्च कफनाशनः । *अर्शकण्डूदरामन्नो रक्तहृद्राहिवान्तिकृत् ॥ २६२ ॥
राजनिघण्टौ शताहादिश्चतुर्थो वर्गःअपामार्गस्तु शिखरी किणिही खरमञ्जरी । दुर्ग्रहश्चाप्यधःशल्यः प्रत्यक्पुष्पी मयूरकः ॥ ३८६ ॥ काण्डकण्ठः शैखरीको मर्कटी दुरभिग्रहः। वशीरश्च पराक्पुष्पी कण्टी मर्कटपिप्पली ॥ ३८७ ॥ कदुर्माञ्जरिको नन्दी क्षवकः पतिकण्टकः । मालाकण्टश्च कुब्जश्च त्रयोविंशतिनामकः ॥ ३८८ ॥ गुणाः-* * ॥ ३८९ ।।
रक्तपुष्पः ( अपामार्गविशेषः) ॥ २ ॥ अन्यो रक्तो रक्तपुष्पो वशीरः कपिपिप्पली । क्षुद्रापामार्गको रक्तः ख्यातको रक्तपूर्वकः ॥ २६३ ॥
१ झ. वामनी सरः । कु । २ क. ख. 'शल्यश्च कि । ३ ङ. च. 'न्तिजित् ।
For Private and Personal Use Only