________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः] राजनिघण्टुसहितः।
गुणाः-महेन्द्रवारुणी ज्ञेया पूर्वोक्तगुणभागिनी। रसे वीर्य विपाके च किंचिदोषा गुणाधिका ॥ ३७७॥
श्वेतपुष्पी (विशालाविशेषः ) ॥६१॥ श्वेतपुष्पी मृगाक्षी च मृगेर्वारुमंगादनी । हस्तिदन्ती नागदन्ती वारुणी गजचिर्भटा ॥ २५२ ॥
गुणाः-कण्ठरोगापचिश्वासकासप्लीहकफोदरम् । मुंढेगर्भं च हरति कुष्ठदुष्टव्रणाञ्जयेत् ॥ २५३ ॥
(७६) त्रायमाणा। त्रायमाणा कृतत्राणा त्रायन्ती त्रायमाणका । बलदेवा बलभद्रा वार्षिक गिरिजानुजा ॥ २५४ ॥
गुणाः-त्रायन्ती कफपित्तास्रगुल्मज्वरहरा मता। उष्णा कटुकषाया च सूतिकाशूलनाशिनी ॥ २५५ ॥ रक्तपित्तश्रमच्छर्दिविषन्नी तिक्तवल्कला।
राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःत्रायमाणा कृतत्राणा त्रायन्ती त्रायमाणिका । बलभद्रा सुकामा च वार्षिकी गिरिजानुजा ॥ ३७८ ॥ मङ्गल्याहा देववला पालिनी भयनाशिनी । अवनी रक्षणी त्राणा विज्ञेया षोडशाह्वया ॥ ३७९ ॥ गुणाः-भ्रमतृष्णाक्षयग्लानिविषच्छर्दिविनाशनी ।
(७७) यवतिक्ता । यवतिक्ता शङ्खिनी तु दृढपादा विसर्पिणी । नाकुली चाक्षपीडा च नेत्रमीला यशस्करी ॥ २५६ ॥
गुणाः-*शङ्खिनी कटुतिक्ताम्ला गुरुः स्निग्धा विशोधनी । त्रिदोषशमनी कुष्ठश्वयथूदरनाशनी ॥ २५७ ॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःयवतिक्ता महातिक्ता दृढपादा विसर्पिणी । नाकुली नेत्रमीला च शङ्खिनी पत्रतण्डुली ॥ ३८० ॥ तण्डुली चाक्षपीडा च सूक्ष्मपुष्पी यशस्विनी । माहेश्वरी तिक्तयवा यावी तिक्तेति षोडश ॥ ३८१ ॥ * ख. पुस्तके-'यवतिक्ता सुतिक्ता च दोषघ्नी दीपनी मता।
शङ्खिनी च रसे तिक्ता मेध्या कृमिविषापहा' इति पाठो दृश्यते। १ ज. 'चिदेषा । २ ग. ङ. च. 'रोगोप। ३ ङ. हगरोद। ४ झ. मूलगर्भापहरणी कु। ५ ग. छ. ढगर्भापहरणी कु। ६ ङ, च. गिरिसानुगम् । झ. गिरिसानुजम् ।
For Private and Personal Use Only