________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- [गुडूच्यादिः. गुणाः—निहुडिङ्गो रसे तिक्तो गुरूष्णः कफवातजित् । दुष्टव्रणाश्मरी हन्ति तथा वातविशोधनः ॥ २३६ ॥ स्नुहीक्षीरं विषाध्मानं गुल्मोदरहरं परम् । स्नुही रसेषु तिक्ता च गुरूष्णा कफवातजित् ॥ २३७॥
राजनिघण्टौ शाल्मल्यादिरष्टमो वर्गःस्नुही सुधा महावृक्षः क्षीरी निस्त्रिंशपत्रिका । शाखाकण्टश्च गुण्डाख्यः सेहुण्डो वज्रकण्टकः ॥ ३५५ ॥ बहुशाखो वज्रवृक्षो वातारिः क्षीरकाण्डकः। भद्रो व्याघ्रनखश्चैव नेत्रारिर्दण्डवृक्षकः ॥ ३५६ ॥ समन्तदुग्धो गण्डीरो ज्ञेयः स्नुक्चेति विंशतिः।
गुणाः-स्नुहिरुष्णा पित्तदाहकुष्ठवातप्रमेहनुत् । क्षीरं वातविपाध्मानगुल्मोदरहरं परम् ॥ ३५७ ॥ स्नुहिरन्या त्रिधारा स्यात्तिस्रो धारास्तु यत्र सा । पूर्वोक्तगुणवत्येषा विशेषाद्रससिद्धिदा ॥ ३५८ ॥
(७१) सातला। * सातला सप्तला सारी विदुला विमलाऽमला । वहुफेना चर्मकपा फेना दीप्ता मरालिका ॥ २३८ ॥
गुणाः—सातला शोधनी तिक्ता कफपित्तास्रदोषनुत् । शोफोदरांध्मानहरा किंचिन्मारुतकृद्भवेत् ॥ २३९ ॥
राजनिघण्टौ शताहादिश्चतुर्थो वर्गः* बहुफेना चर्मकपा फेना दीप्ता विषाणिका ॥ ३५९ ॥ स्वर्णपुष्पी चित्रघना स्यात्रयोदशनामका। गुणाः-सातला कफपित्तघ्नी लघुतिक्तकषायिका । विसर्पकुष्ठविस्फोटवणशोफनिकृन्तनी ॥ ३६०॥
(७२) क्षीरिणी। क्षीरिणी काञ्चनक्षीरी कटुपर्णी च घर्षिणी । तिक्तदुग्धा हैमवती हेमदुग्धा हिमावती ॥ २४० ॥
गुणाः-तिक्ता तु काश्चनक्षीरी पित्तकृमिविषापहा । शोधनी दोषसंघातशमनी रक्तपित्तजित् ॥ २४१ ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्ग:
१ च. बिन्दुला । २ झ. त. रानाहह ।
For Private and Personal Use Only