________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः] राजनिघण्टुसहितः। पत्रश्रेण्याकर्णिका ॥ ३४६ ॥ मूषकाहादिका की प्रतिपर्णी शिफा च सा सहस्रमूली विक्रान्ता ज्ञेया स्याचतुरेकधा ॥ ३४७ ॥
गुणाः-द्रवन्ती मधुरा शीता रसबन्धकरी परा । ज्वरनी कृमिहा शूलशमनी च रसायनी ॥ ३४८ ॥
(६९) नीलिनी । नीलिनी नीलिका काला ग्राम्या तूणीविशोधनी । तुत्था श्रीफलिका मोचा भारवाही च रञ्जनी ॥ २३२ ॥ *अन्यच्च-उपभूतः केशरुहः सहदेवोऽग्रपत्रकः । कीतनी विजया राज्ञी तथैव च जयावहा ॥ २३३ ॥ ___ गुणाः-नीली तिक्ता रसे चोष्णा कटिवातकफापहा । केश्या विषोदरं हन्ति वातासृकृमिनाशिनी ॥ २३४ ॥
राजनिघण्टौ शताह्वादिश्चतुर्थो वर्गःनीली नीला नीलिनी नीलपत्री तुत्था राज्ञी नीलिका नीलपुष्पी । काली श्यामा शोधनी श्रीफला च ग्राम्या भद्रा भारवाही च मोचा ॥ ३४९ ॥ कृष्णा व्यञ्जनकेशी च रञ्जनी च महाफला । असिता क्लीतनी नीलकेशी चारटिका मता ॥ ३५० ॥ गन्धपुष्पा श्यामलिका रङ्गपत्री महाबला । स्थिररङ्गा रङ्गपुष्पी स्यादेकविंशदाह्वया ॥ ३५१ ।। __गुणाः-नीली तु कटुतिक्तोष्णा केश्या कासकफामनुत् । मरुद्विषोदरव्याधिगुल्मजन्तुज्वरापहा ॥ ३५२ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्ग:
महानीली ( नीलिनीविशेषः)॥५८॥ अन्या चैव महानीली अमला राजनीलिका । तुत्था श्रीफलिका मेला केशार्दा भृशपत्रिका ॥ ३५३ ॥
गुणाः-महानीली गुणाढ्या स्याद्रङ्गश्रेष्ठा सुवीर्यदा।पूर्वोक्तनीलिकाऽऽदेश्या सगुणा सर्वकर्मसु ।। ३५४ ॥
(७०) 'स्नुक् । स्नुकस्नुही च महावृक्षो गुडा निस्त्रिंशपत्रकः । समन्तदुग्धा गण्डीरः सीहुण्डो वनकण्टकः ॥ २३५ ॥
*कपुस्तके द्वितीया शरपुङ्खा च शताबा शतपत्रिका।रक्तापहा रक्तहारी द्वितीया नीलिसंभवा॥ गुणाः-नीलिका फलजन्तुम्नी विषजित्तिक्तका शुचिः । हृद्रोगवातगुल्मेषु प्लीहरोगे च योजयेत्" इति पाटो दृश्यते।
स्नुारशोधनं पञ्चगव्येषु कार्यम् । १ क. ख. ग. ङ. च. मेला।
For Private and Personal Use Only