________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- [गुडूच्यादि:राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:अन्या दन्ती केशरुहा विषभद्रा जयावहा । आवर्तकी वराङ्गी च जयादा भद्रदन्तिका ॥ ३४१॥
गुणाः-अन्या दन्ती कटूप्णा च रेचनी कृमिहा परा। शूलकुष्ठामदोपत्री तन्द्रामयविनाशनी ॥ ३४२ ॥
रेचकः (दन्तीबीजम् ) ॥५७॥ *रेचको जयपालश्च सारकस्तित्तिरीफलम् । दन्तीबीजं मलद्रावी निकुम्भो बीजरेचकः ॥ २२७ ॥ कुम्भीवीजं निकुम्भा च बीजं तत्कुम्भिनीफलम् ॥
गुणाः-*जेपालः कटुरुष्णश्च कृमिहारी विरेचनः । *दीपनः कफवातघ्नो जठरामयशोधनः ॥ २२८॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः*दन्तीबीजं मलद्रावि ज्ञेयं स्याद्रीजरेचनी ॥३४३॥ कुम्भीबीजं कुन्तिनीबीजसंज्ञं घण्टाबीजं दन्तिनीवीजमुक्तम् । वीजान्ताख्यं शोधनी चक्रदन्त्यो वेदेन्द्राख्यं तनिकुम्भ्याश्च बीजम् ॥ ३४४ ॥ गुणाः-* * ॥ ३४५॥
(६८) द्रवन्ती । द्रवन्ती शम्बरी चित्रा न्यग्रोधा मूषिकाह्वया । प्रत्यक्श्रेणी विषा चण्डा पुत्रंश्रेण्याखुपर्णिका ॥ २२९ ॥
गुणाः-द्रवन्ती ग्रहणीतृष्णात्रिदोषशमनी हिता । अभिच्छिन्नतनौ ग्रन्थ्यां प्रमेहे जठरे गरे ॥ २३० ॥ कफपित्तामये पाण्डौ कृमिकोष्ठभगंदरे । द्रवन्ती हृद्रोगहरा कफकृमिविनाशिनी ॥ २३१ ॥
राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःद्रवन्ती शाम्बरी चित्रा न्यग्रोधी शतमूलिका । प्रत्यक्श्रेणी वृषा चण्डा *जयपालशोधनम्-वस्त्रे बद्ध्वा तु जेपालं गोमयस्थादके न्यसेत् । पाचयेद्याममात्रं तु जेपाल: शुद्धतां व्रजेत् ॥ १॥ अन्यच्च-जेपालं निस्तुषं कृत्वा दुग्धे दोलायुते पचेत् । अन्तर्जिह्वां परित्यज्य युञ्जीयाद्रसकर्मणि ॥ २ ॥ अन्यच्च-जेपालो रहितस्त्वगङ्कररसज्ञाभिर्मले माहिषे निक्षिप्तस्त्र्यहमुष्णतोयविमल: खल्वे सवासोदितः । लिप्तो नूतनखपरेषु विगतस्नेहो रजःसंनिभो निम्बस्याम्बुनि भावितश्च बहुशः शुद्धो गुणाढयो भवेत् ॥ ३ ॥
. १ ङ. मूलका । २ क. घ, ङ, च. त्रशृङ्गयाखं।
For Private and Personal Use Only