________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः] राजनिघण्टुसहितः।
कर्णिकारः ( आरग्वधविशेषः ) ॥ ५५ ॥ कर्णिकारो राजवृक्षः प्रग्रहः कृतमालकः। आरोग्यशिम्बी शम्याको व्याधिघातो व्यथान्तकः ॥ २२१ ॥ __ गुणाः-कृतमालो मधुः शीतः पित्तनो मधुरः सरः। तत्फलं मधुरं वल्यं वातपित्तामजित्सरम् ॥ २२२ ॥
राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग:अथ भवति कर्णिकारो राजतरुः प्रग्रहश्च कृतमालः । सुफलश्च परिव्याधो व्याधिरिपुः पङ्क्तिबीजको वसुसंज्ञः ॥ ३३६ ॥
गुणाः–कर्णिकारो रसे तिक्तः कटूणः कफशूलहृत् । उदरकृमिमेहन्नो व्रणगुल्मनिवारणः ॥ ३३७॥
(६७) दन्ती। दन्ती शीघ्रा निकुम्भा स्यादुपंचित्रा मकूलकः । तथोदुम्बरपर्णी च विशल्या च गुणप्रिया ॥ २२३ ॥
गुणाः-दन्ती तीक्ष्णोष्णकटुका कफवातोदराञ्जयेत् । अर्शोवणाश्मरीशूलान्हन्ति दीपनशोधनी ॥ २२४ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:दन्ती शीघ्रा श्येनघण्टा निकुम्भी नागस्फोता दन्तिनी चोपचित्रा । भद्रा रूक्षा रोचनी चानुकूला निःशल्या स्याद्वक्रदन्ता विशल्या ॥ ३३८ ॥ मधुपुष्पैरण्डफला भद्राण्येरण्डपत्रिका। उदुम्बरदला चैव तरुणी चाणुरेवती॥३३९॥ विशोधनी च कुम्भी च ज्ञेया चाग्निकरावया ॥
गुणाः-दन्ती कटूष्णा शूलामत्वद्गोषशमनी च सा । अर्शीव्रणाश्मरीशल्यशोधनी दीपनी परा ॥ ३४०॥
अरणी ( दन्तीविशेषः )॥५६॥ अरणी च वराङ्गी च तथैव च जयावहा । आवर्तकी केशरुहा तथैव विषभद्रका ॥ २२५ ॥ ___गुणाः-*दन्ती रसेषु तिक्तोष्णा शूलत्वद्गोपनाशिनी । कफवातोदराऑसि हन्ति दीपनशोधनी ॥ २२६ ॥
* ग. पुस्तके-'दन्ती तीक्ष्णोष्णकटुका कर्फ चोदरजं जयेत् ।
अर्शोव्रणाश्मरीशलान्हन्ति दीपनपाचनी' ॥ इत्ययं श्लोको दृश्यते ।
१ क. ख, ग. ङ. च. पवित्रा । २ क, ख. ग. ङ. वरणी।
For Private and Personal Use Only