SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःप्राचीनामलकम् ( वयस्थाविशेषः ) ॥५२॥ प्राचीनामलकं प्राचीनारङ्गं रक्तकं मतम् । गुणाः-तत्पकं पित्तकफकृहुर्जरं गुरु वातजित् ॥ २१८ ॥ राजनिघण्टावाम्रादिरेकादशो वर्गः काष्ठधात्री । ( वयस्थाविशेषः ) ॥५३॥ अन्यच्चाऽऽमलकं प्रोक्तं काष्टधात्रीफलं तथा । क्षुद्रामलकमित्युक्तं क्षुद्रजातीफलं च तत् ॥ ३२९ ॥ गुणाः-काष्ठधात्रीफलं स्वादु कषायं कटुकं तथा । शीतं पित्तास्रदोपघ्नं पूर्वोक्तमधिकं गुणैः ॥ ३३० ॥ राजनिघण्टावाम्रादिरेकादशो वर्गः कर्कटः । ( वयस्थाविशेषः ) ॥५४॥ कर्कटः कार्कटः कर्कः क्षुद्रधात्री च स स्मृतः । क्षुद्रामलकसंज्ञश्च प्रोक्तः कर्कफलश्च षट् ॥ ३३१॥ गुणाः-कार्कटं तु फलं रुच्यं कषायं दीपनं परम् । कफपित्तहरं ग्राहि चक्षुष्यं लघु शीतलम् ॥ ३३२॥ (६६) आरग्वधः।। आरग्वधो दीर्घफलो व्याधिहा चतुरङ्गुलः । आरेवतस्तथा कर्णी कणिका रोऽथ रेचनः ॥ २१९ ॥ गुणाः-आरग्वधो रसे तिक्तो गुरूष्णः कृमिशूलनुत् । कफोदरप्रमेहन्नः कृच्छूगुल्मत्रिदोषजित् ॥ २२० ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःआरग्वधोऽन्यो मन्थानो रोचनश्चतुरङ्गुलः । हेमपुष्पो राजतरुः कण्डुनश्च ज्वरान्तकः ॥ ३३३ ॥ अरुजः स्वर्णपुष्पश्च स्वर्णद्रुः कुष्ठसूदनः। कर्णाभरणकः प्रोक्तो महाराजद्रुमः स्मृतः॥ ३३४ ॥ कर्णिकारो महादिः स्यात्मोक्तश्चैकोनविंशतिः। गुणाः—आरग्वधोऽतिमधुरः शीतः शूलापहारकः । ज्वरकण्डूकुष्टमेहकफविष्टम्भनाशनः ॥ ३३५ ॥ १ क, ख. ग. ङ. च °धिनश्चतु। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy