________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः] राजनिघण्टुसहितः।
गुणाः-विभीतकः कटुः पाके लघुर्वैस्वर्यजित्सरः । कासाक्षिवक्त्ररोगन्नः केशद्धिकरः परः ॥ २१३ ॥ अन्यच्च-विभीतकं कषायं च कृमिवैस्वर्यजित्सरम् । चक्षुष्यं कटुरूक्षोष्णं पाके स्वादु कफास्रजित् ॥ २१४ ॥
राजनिघण्टावाम्रादिरेकादशो वर्गःविभीतकस्तैलफलो भूतवासः कलिद्रुमः । संवर्तकस्तु वासन्तः कल्किवृक्षो बहेडकः ॥ ३२२ ॥ हार्यः कर्षफलः कल्किधर्मनोऽक्षोऽनिलग्नकः । विभीतकश्च कासनः स प्रोक्तः षोडशाहयः ॥ ३२३ ॥
गुणाः-विभीतकः कटुस्तिक्तः कषायोष्णः कफापहः । चक्षुष्यः पलितघ्नश्च विपाके मधुरो लघुः ॥ ३२४ ॥
(६५) वयस्था (भरणी) (त्रिफलान्तर्गता) वयस्थाऽऽमलकं वृष्यं जातीफलरसं शिवम् । धात्रीफलं श्रीफलं च तथाऽमृतफलं स्मृतम् ॥ २१५ ॥
गुणाः—*कषायं कटु तिक्तोष्णं स्वादु चाऽऽमलकं हिमम् । रसं त्रिदोषहदृष्यं ज्वरघ्नं च रसायनम् ॥ २१६ ॥ हन्ति वान्तं तदम्लत्वात्पित्तं माधुर्यशैत्यतः । कर्फ रूक्षकषायत्वात्फलं धान्यास्त्रिदोषजित् ।। २१७ ॥
राजनिघण्टावाम्रादिरेकादशो वर्गःआमलकी वयस्था च श्रीफला धात्रिका तथा । अमृता च शिवा शान्ता शीताऽमृतफला तथा ॥ ३२५ ॥ जातीफला च धात्रेयी ज्ञेया धात्रीफला तथा । वृष्या वृसफला चैव रोचनी च चतुर्दश ॥ ३२६ ॥ ___ गुणाः-आमलकं कषायाम्लं मधुरं शिशिरं लघु । दाहपित्तवमीमेहशोफन्नं च रसायनम् ॥ ३२७ ॥ अन्यच्च-कटु मधुरकषायं किंचिदम्लं कफघ्नं रुचिकरमतिशीतं हन्ति पित्तास्रतापम् । श्रमवमनविबन्धाध्मानविष्टम्भदोषप्रशमनममृताभं चाऽऽमलक्याः फलं स्यात् ।। ३२८ ॥ * ख. पुस्तके
'आमलकं मधुराल्पकरं च दृष्टिकरं बहुशुक्रकरं च । शीतकरं सुपवित्रकरं च च्छर्दिहरं व्रणमेहहरं च ॥ शोषहरं बहुदोषहरं च मेहसमूत्रहरं च वरं च । केशकरं मुखरोगहरं च जीवितदीर्घकरं च वरं च ॥
इति श्लोकद्वयमधिकं दृश्यते । १ क. ङ. लघुः शीतबलासजित् । का। २ ग. 'रः। केशाक्षिकण्ठरोगघ्नः केशरङ्गकरः सरः। ।
For Private and Personal Use Only