________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःहरीतकी हैमवती जयाऽभया शिवाऽव्यथा चेतनिका च रोहिणी । पथ्या प्रपथ्याऽपि च पूतनाऽमृता जीवप्रिया जीवनिका भिषग्वरा ॥ ३०६ ॥ जीवन्ती प्राणदा जीव्या कायस्था श्रेयसी च सा । देवी दिव्या च विजया वहिनेत्रमिताभिधा ॥ ३०७॥
गुणाः—हरीतकी पञ्चरसा च रेचनी कोष्टामयनी लवणेन वर्जिता । रसायनी नेत्ररुजापहारिणी त्वगामयनी किल रोगवाहिनी ॥ ३०८ ॥ अन्यच्चवीजास्थितिक्ता मधुरा तदन्तस्त्वग्भागतः सा कदुरुष्णवीर्या । मांसांशतवाम्लकषाययुक्ता हरीतकी पञ्चरसा स्मृतेयम् ॥३०९॥ हरीतकीभेदाः-हरीतक्यमृतोत्पन्ना सप्तभेदैरुदीरिता । तस्या नामानि वर्णाश्च वक्ष्याम्यथ यथाक्रमम् ॥ ३१० ॥ विजया रोहिणी चैव पूतना चामृताऽभया । जीवन्ती चेतनी चेति नाम्ना सप्तविधा मता ॥ ३११ ॥ अलाबुनाभिर्विजया सुवृत्ता रोहिणी मता। स्वल्पत्वक्पूतना ज्ञेया स्थूलमांसाऽमृता स्मृता ॥ ३१२॥ पश्चाना चाभया ज्ञेया जीवन्ती स्वर्णवर्णमाक् । व्यसां तु चेतकी विद्यादित्यासां रूपलक्षणम् ॥ ३१३ ॥ विन्ध्याद्रौ विजया हिमाचलभवा स्याञ्चेतकी पूतना सिन्धौ स्यादथ रोहिणी तु विजया जाता प्रतिस्थानके । चम्पायाममृताऽभया च जनिता देशे सुराष्ट्राह्वये जीवन्ती च हरीतकी निगदिता सप्तप्रभेदा बुधैः॥ ३१४ ॥ सर्वप्रयोगे विजया च रोहिणी क्षतेषु लेपेषु तु पूतनोदिता । विरेचने स्यादमृता गुणाधिका जीवन्तिका स्यादिह जीर्णरोगजित ॥ ३१५ ॥ स्याञ्चेतकी सर्वरुजापहारिका नेत्रामयन्तीमभयां वदन्ति । इत्थं यथायोगमियं प्रयोजिता ज्ञेया गुणाढ्या न कदाचिदन्यथा ॥ ३१६ ॥ चेतकी च धृता हस्ते यावत्तिष्ठति देहिनः । तावद्विरेचते वेगात्तत्प्रभावान संशयः ॥ ३१७ ॥ सप्तानामपि जातीनां प्रधानं विजया स्मृता । सुखपयोगसुलभा सर्वव्याधिषु शस्यते ॥ ३१८ ॥ क्षिप्ताऽप्सु निमज्जति या सा ज्ञेया गुणवती भिषग्वर्यैः। यस्या यस्या भूयो निमज्जनं सा गुणाढया स्यात्।।३१९॥ हरते प्रसभं व्याधीन्भूयस्तरति यद्वपुः। हरीतकी तु सा प्रोक्ता तत्र कीर्दीप्तिवाचकः ॥ ३२० ॥ हरीतकी तु तृष्णायां हनुस्तम्भे गलग्रहे । शोपे नवज्वरे जीर्णे गुर्विण्यां नैव शक्यते ॥ ३२१ ॥
(६४) विभीतकः (त्रिफलान्तर्गतः ) विभीतकः कर्षफलो वासन्तोऽक्षः कलिद्रुमः। संवर्तको भूतवासः कल्को हार्यो बहेडकः ॥ २१२ ॥
१ क, ख. ग. ङ, च विभीतकः ।
For Private and Personal Use Only