________________
Shri Mahavir Jain Aradhana Kendra
१ प्रथमो वर्गः ]
www.kobatirth.org
राजनिघण्टुसहितः ।
( ६३ ) हरीतकी । ( त्रिफलान्तर्गता )
+
* हरीतक्यभया पथ्या प्रपध्या पूतनाऽमृता । जयाऽव्यथा हैमवती वयस्था चेतकी शिवा ।। २०५ ।। प्राणदा नन्दिनी चैव रोहिणी विजया च सा ।
Acharya Shri Kailassagarsuri Gyanmandir
गुणाः - + कषायाऽम्ला च कटुका तिक्ता मधुरंसाम्विता । इति पञ्चरसा पथ्या लवणेन विवर्जिता ।। २०६ || अम्लभावाज्जयेद्वातं पित्तं मधुरतिक्तकात् । कफं रूक्षकषायत्वात्रिदोषनी ततोऽभया ।। २०७ ।। प्रपथ्या लेखनी लघ्वी मेध्या चक्षुर्हिता सदा । मेहकुष्ठव्रणच्छर्दिशोफवातास्रकृच्छ्रजित् ।। २०८ ॥ वातानुलोमनी हृद्या सेन्द्रियाणां प्रसादनी । संतर्पणकृतान्रोगान्मायो हन्ति हरीतकी ।। २०९ ।। तृष्णायां मुखशोषे च हनुस्तम्भे गलग्रहे । नवज्वरे तथा क्षीणे गर्भिण्यां न प्रशस्यते ।। २१० ।। हरस्य भवने जाता हरीता च स्वभावतः । सर्वरोगांश्च हरते तेन ख्याता हरीतकी ॥ २११ ।।
राजनिघण्टावाम्रादिरेकादशो वर्ग:
४९
* 'भावप्रकाशे' - सुधर्मायां गतो विष्णुः सुरासुरसमावृतः । पपौ सुधां स्वयं तस्मात्पतिताः सप्त बिन्दवः ॥ १ ॥ ततो हरीतकी जाता सप्तधा लोमहर्षदा । अभया चेतकी पथ्या पूतना च हरीतकी । जया हैमवती चैव प्रोक्ताः सप्त इमाः शिवाः ॥ २ ॥
‘अभया' त्र्यङ्गुला ज्ञेया सुक्ष्मवर्णा गुरुस्तथा । त्रिरेखा वर्तुला रूक्षा कफहदेचनी स्मृता ॥ ३ ॥ ‘चेतकी' पूर्वदेशे स्याद्वस्तिव्याधिविनाशिनी । दशाङ्गुलैक रेखा च देवानामपि दुर्लभा ॥ ४ ॥ ‘पथ्या’ मागधदेशे स्याद्वस्तिव्याधिविनाशिनी । पञ्चाङ्गुला चतूरेखा कीर्तिता च रसायनी ॥ ५ ॥ 'पूतना' सप्तकोणान्ता सिंहलद्वीपजा मता । आयुष्या सा हरा शुभ्रा नामतश्च षडङ्गुला ॥ 'हरीतकी' वनोद्भूता सर्वोदरविनाशिनी । मूत्रकृच्छ्राश्मरीमेहवातपित्तकफापहा ॥ ७ ॥ 'जया' सिन्धुद्धवा ज्ञेया गुल्मप्लीहविनाशिनी । रक्तातिसारपित्तघ्नी दीपनी कफहृत्परा ॥ ८ ॥ क्षुद्रा ' हैमवती ' प्रोक्ता बालव्याधिविनाशिनी । नेत्ररोगे प्रशस्ता च सर्वामयविनाशिनी ॥ ९ ॥
६ ॥
یا
1
+‘आत्रेयसंहितायाम्' अभया द्व्यङ्गुला प्रोक्ता पूतना चतुरङ्गुला । सार्धाङ्गुला च जीवन्ती चेतकी स्यात्षडङ्गुला ॥ १ ॥ चेतकी द्विविधा प्रोक्ता कृष्णा शुक्ला च वर्णतः । षडङ्गुला हिता प्रोक्ता शुक्ला चैकाङ्गला स्मृता ॥ २ ॥ श्रेष्ठा कृष्णा समाख्याता रेचनार्थे जिगीषुणा । चेतकीवृक्षशाखायां यावत्तिष्ठन्ति तां पुनः ॥ ३ ॥ भिन्दन्ति पशुपक्ष्याद्या नराणां कोऽत्र विस्मयः । चेतकीं यावद्विधृत्य हस्ते तिष्ठति मानवः ॥ ४ ॥ तावद्भिनत्ति रोगांस्तु प्रभावान्नात्र संशयः । नृपाणां सुकुमाराणां तथा भेषजविद्विषां ॥ ५ ॥ कृशानां हितमेवं स्यात्सुखोपायविरेचनम् । हरीतकी दरिद्राणामनपायरसायनम् ॥ ६ ॥ पथ्यस्यान्तेऽथवा चाऽऽदौ भक्षेच्चाऽऽमयनाशिनीम् ।
+‘ग्रन्थान्तरे'-ग्रीष्मे तुल्यगुडां ससैन्धवयुतां मेघाम्बुद्धनाम्बरे तुल्यां शर्करया शरद्यमलया शुण्ठ्या तुषाराङ्गणे ॥ पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण संमिश्रितां राजन्प्राप्य हरीतकीमिव गदा नश्यन्तु ते शत्रवः ॥ १ ॥ हरीतकी रसायनी समीररक्तनाशिनी । वरा स्वराग्निदीपनी त्रिदोषशलनाशिनी ॥ २ ॥
For Private and Personal Use Only