________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४८
धन्वन्तरीयनिघण्टुः
[ गुडूच्यादि:
शणपुष्पी बृहत्पुष्पी शणिका शणघण्टिका । पीतपुष्पी स्थूलफला लोमशा
माल्यपुष्पिका ॥ २९८ ॥
गुणाः शणपुष्पी रसे तिक्ता कषाया कफवातजित् । अजीर्णज्वरदोषघ्नी वमनी रक्तदोषनुत् ।। २९९ ॥
राजनिघण्टौ शताह्वादिश्चतुर्थो वर्गः -
Acharya Shri Kailassagarsuri Gyanmandir
-
सूक्ष्मपुष्पा ( शणपुष्पीविशेषः ) ॥ ५१ ॥
द्वितीयाsन्या सूक्ष्मपुष्पा स्यात्क्षुद्रशणपुष्पिका । विष्टिका सूक्ष्मपर्णी च arrat सूक्ष्मघण्टिका ॥ ३०० ॥
गुणाः शणपुष्पी क्षुद्रतिक्ता वैम्या रसनियामिका । तृतीयाऽन्या वृत्तपर्णी श्वेतपुष्पा महासिता । सा महाश्वेतघण्टी च सा महाशणपुष्पिका ।। ३०१ ॥ महाश्वेता कषायोष्णा शस्ता रसनियामिका ।
(६२) बिम्बी |
विम्बी रक्तफला तुण्डी तुण्डिकेरफला च सा । ओष्टोमफला गोढा पीलुपर्णी च तुण्डिका ॥। २०२ ॥
गुणाः तुण्डिका कफपित्तसृक्शोफपाण्डुज्वरापहा । श्वासकासापहं स्तन्यं फलं वातकफापहम् ।। २०३ || विम्बीफलं स्वादु शीतं स्तम्भनं लेखनं गुरु । पित्तास्रदाहशोफनं वाताध्मानविबन्धकृत् ॥ २०४ ॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:
तिक्ततुण्डी तु तिक्ताख्या कटुका कटुतुण्डिका । विम्बी च कटुतिक्तादितुण्डीपर्यायगा च सा ॥ ३०२ ॥
गुणाः कटुतुण्डी कटुस्तिक्ता कफवान्तिविषापहा । अरोचकास्रपित्तघ्नी सदा पथ्या च रोचनी ॥ ३०३ ॥
राजनिघण्टौ मूलकादिः सप्तमो वर्ग:
अथ भवति मधुरविम्बी मधुविम्बी स्वादुतुण्डिका तुण्डी । रक्तफला रुचिरफला सोष्णफला पीलुपर्णी च ॥ ३०४ ॥
गुणाः - बिम्बी तु मधुरा शीता पित्तश्वासकफापहा । असृग्ज्वरहरा रम्या कासजिगृहविम्बिका ॥ ३०५ ॥
For Private and Personal Use Only
१ ज. वन्या । २ क. ङ. च. 'केशफ' । ३ क. ङ. कोष्णा । ख च कोइला । ४ क. ख. ङ. च. 'त्तास्रशो ं । ५ क. 'लं स्तन्यकरं स्वादुकासार्तिबुद्धिजित् । पि° ।