________________
Shri Mahavir Jain Aradhana Kendra
१ प्रथमो वर्गः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजनिघण्टुसहितः । (५९ ) कोविदारः ।
कोविदारः काञ्चनारः कुद्दालः कुण्डली कुली । ताम्रपुष्पैश्चमरिको महाय
४७
मलपत्रकः ।। १९६ ॥
गुणाः - कोविदारः कषायस्तु संग्राही व्रणरोपणः । गण्डमालागुदभ्रंशशमनः कुष्ठकेशहा || १९७ ।।
राजनिघण्टौ करवीरादिर्दशमो वर्ग:
कोविदारः काञ्चनारः कुद्दालः कनकारकः । कान्तपुष्पश्च करकः कान्तारो यमलच्छदः ।। २९३ ॥ पीतपुष्पः सुवर्णारो गिरिजः काञ्चनारकः । युग्मपत्रो महापुष्पः स्याच्चतुर्दशधाभिधः ।। २९४ ॥
गुणाः – कोविदारः कषायः स्यात्संग्राही व्रणरोपणः । दीपनः कफवातघ्नो मूत्रकृच्छ्रनिवर्हणः ।। २९५ ॥
( ६० ) आवर्तकी । ( विषाणिका )
आवर्तकी विन्दुकिनी विभाण्डी पीतकीलका । चर्मरङ्गा पीतपुष्पा महाजाली निरुच्यते ॥ १९८ ॥
गुणाः- आवर्तकी च कुष्ठघ्नी सोर्ध्वाधोदोषनाशनी । कषाया शीतला वृष्या त्रिदोषघ्न्यतिसारजित् ॥ १९९ ।। शोफगुल्मोदरानाहकृमिजालविनाशिनी ।
राजनिघण्टौ गुडच्यादिस्तृतीयो वर्ग:--
आवर्तकी तिन्दुकिनी विभाण्डी विषाणिका रङ्गलता मनोज्ञा । सा रक्तपुष्पी महदादिजाली सा पीतकीलाऽपि च चर्मरङ्गा ।। २९६ || वामावर्ता च संप्रोक्ता भूसंख्या शशिसंयुता ।
गुणा:- आवर्तकी कषायाम्ला शीतला पित्तहारिणी ॥ २९७ ॥ (६१) शणपुष्पी | ( पणपुष्पी, सणपुष्पी, खिलिहिला, शणवीजा ) शैणपुष्पी बृहत्पुष्पी सा चोक्तों शणघण्टिका । महौशणो माल्यपुष्पी वमनी कटुतिक्तका ॥ २०० ॥
गुणाः शणपुष्पी रसे तिक्ता वमनी कफपित्तजित् । वातघ्नी कण्ठहृद्रोगमुखरोगविनाशिनी ॥ २०१ ॥
राजनिघण्टौ शताहादिश्वतुर्थी वर्गः-
For Private and Personal Use Only
१ झ . दारोऽथ कुद्दालः कुम्भारः कु । २ क. ङ. 'पश्चाम' । ३ क. ङ. च. पणपुष्पी । ४. क्षण । ५ क. म 'हाशनो मा !