________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःहस्तिकोशातकी त्वन्या बृहत्कोशातकी तथा । महाकोशातकी वृत्ता ग्राम्यकोशातकी शराः ॥ २८४ ॥
गुणाः-हस्तिकोशातकी स्निग्धा मधुराऽऽध्मानवातकृत् । वृष्या कृमिकरी चैव व्रणरोपणी च सा ॥ २८५ ॥
कोशातकी । (धामार्गवविशेषः) ॥ ५० ॥ कोशातकी कृतच्छिद्रा जालिनी कृतवेधनी । श्वेडा सुतिक्ता घण्टाली मृदङ्गफलिका मता ॥ १९२ ॥
गुणाः--क्ष्वेडस्तिक्तः कटुस्तीक्ष्णोऽप्रगाढश्च प्रशस्यते । कुष्ठपाण्डामयप्लीहशोफगुल्मगरादिषु ॥ १९३ ॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:कोशातकी कृतच्छिद्रा जालिनी कृतवेधना । क्ष्वेडा मुतिक्ता घण्टाली मृदङ्गफलिनी तथा ॥ २८६ ॥
गुणाः—कोशातकी तु शिशिरा कटुकाऽल्पकषायका । पित्तवातकफनी च मलाध्मानविशोधिनी ॥ २८७॥
अन्यच्च-राजनिघण्टौ मूलकादिः सप्तमो वर्ग:कोशातकी स्वादुफला सुपुष्पा कर्कोटकी स्यादपि पीतपुष्पा । धाराफला दीर्घफला सुकोशा धामार्गवः स्यानवसंज्ञकोऽयम् ॥ २८८ ॥
गुणाः-धाराकोशातकी स्निग्धा मधुरा कफपित्तनुत् । ईषद्वातकरी पथ्या रुचिकृद्धलवीर्यदा ॥ २८९ ॥
(५८) अश्मन्तकः । अश्मन्तकश्चन्द्रकस्तु कुशली चाम्लपत्रकः । श्लक्ष्णस्त्वग्वालुकापणः स्मृतो यमलपत्रकः ॥ १९४ ॥
गुणाः-अश्मन्तकः कषायस्तु हिमः पित्तकफापहः । कपायः शीतसंग्राही कफपित्तास्रदोषनुत् ॥ १९५ ॥
राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःअश्मन्तकश्चन्दुकश्च कुद्दालश्चाम्लपत्रकः । अश्मान्तश्चेन्दुशफरी शिलान्तश्चाम्बुदः स्मृतः ॥ २९० ॥ पाषाणान्तक इत्युक्तो वह्निचन्द्रमिताहयः॥ २९१ ॥
गुणाः-अश्मन्तकः स्यान्मधुरः कषायः सुशीतलः पित्तहरः प्रमेहजित । विदाहतृष्णाविषममज्वरापहो विषार्तिविच्छर्दिहरश्च भूतजित् ॥ २९२॥
१ झ. कश्चन्द्र त. 'कश्चन्द्र । २ क. ख. घ. ङ, च. पत्रः स्मृ । ३ ट 'श्वेन्द्रक । ४ झ. "न्दुकुश्च ।
For Private and Personal Use Only