________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१ प्रथमो वर्गः }
राजनिघण्टुसहितः ।
४५
गुणाः कर्कोटकीयुगं तिक्तं हन्ति श्लेष्मविषद्वयम् । मधुना च शिरोरोगे कन्दस्तस्याः प्रशस्यते ॥ १८८ ॥
राजनिघण्टौ मूलकादिः सप्तमो वर्ग:
कटकी स्वादुफला मनोज्ञा च मनस्विनी । बोधना वन्ध्यकर्कोटी देवी कण्टफलाऽपि च ।। २७६ ।।
――――――――――
Acharya Shri Kailassagarsuri Gyanmandir
गुणाः कर्कोटकी कटूष्णा च तिक्ता विषविनाशनी । वातघ्नी पित्तहृच्चैव दीपनी रुचिकारिणी ॥ २७७ ॥
राजनिघण्टौ मूलकादिः सप्तमो वर्ग:
करका । (त्रपुसविशेषः ) ॥ ४८ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग:
करका कारवल्ली च चीरिपत्रः करिलका । सूक्ष्मवल्ली कण्टफला पीतपुours agoल्लिका ॥ २७८ ॥
गुणाः कारवल्ली सुतिक्तोष्णा दीपनी कफवातजित् । अरोचकहरा चैव रक्तदोषकरी च सा ।। २७९ ।।
कुडुहुञ्ची । (त्रपुसविशेषः) ॥ ४९ ॥
कुडुहुञ्ची श्रीफलिका प्रतिपत्रफला च सा । शुभ्रवी कारवी चैव प्रोक्ता बहुफला तथा ।। २८० || क्षुद्रकारलिका प्रोक्ता ज्ञेया कन्दलता तथा । क्षुद्रादिकारवल्ली च प्रोक्ता सा च नवाह्वया ।। २८१ ॥
गुणाः - कुहुखी कटुरुष्णा तिक्ता रुचिकारिणी च दीपनदा । रक्तानिलदोषकरी पथ्याऽपि च सा फले प्रोक्ता ॥ २८२ ॥ कारलीकन्दमर्शोघ्नं मलरोधविशोधनम् । योनिनिर्गतदोषघ्नं गर्भस्रावविषापहम् ।। २८३ ।।
(५७) धामार्गवः ।
धामार्गवः कोशफला राजकोशातकी तथा । कर्कोटकी पीतपुष्पा महाजाली निरुच्यते ।। १८९ ।। महाकोशातकी धन्या हस्तिघोषा महाफला ।
गुणाः- धामार्गवो गदेष्विष्टः स्थिरेषु च महत्सु च । कोशातकी सुतिकोष्णा पक्कामाशयशोधिनी ।। १९० ।। कासगुल्मोदरगरे वातश्लेष्माशयस्थिते । कफे च कण्ठवक्त्रस्थे कफसंचयनेषु च ॥। १९१ | अन्या स्वादुत्रिदोषघ्नी ज्वरस्यान्ते हिता स्मृता ।
राजनिघण्टौ मूलकादिः सप्तमो वर्ग:
―――
१८. कारली । २ क. ख. ग. ङ. च. फला ।
For Private and Personal Use Only