________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- गुडूच्यादिःगुणाः-वल्लीफलानां प्रवरं कूष्माण्डं वातपित्तजित् । वस्तिशुद्धिकरं वृष्यं हृद्यं चेतोविकारजित् ।। १८४ ॥ ___ राजनिघण्टौ मूलकादिः सप्तमो वर्गः
कर्कोटिका च कूष्माण्डी कुम्भाण्डी तु बृहत्फला । सुफला स्यात्कुम्भफला नागपुष्पफला मुनिः ॥ २६९ ॥
गुणाः-मूत्राघातहरं प्रमेहशमनं कृच्छ्राश्मरीछेदनं विण्मूत्रग्लपनं तृषार्तिशमनं जीर्णाङ्गपुष्टिप्रदम् । वृष्यं स्वादुतरं त्वरोचकहरं बल्यं च पित्तापहं कूष्माण्ड प्रवरं वदन्ति भिषजो वल्लीफलानां पुनः ॥ २७० ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गः
मांसलफलः । (त्रपुसविशेषः ) ॥ ४५ ॥ मांसलफलः कलिङ्गश्चित्रफलश्चित्रवल्लिकश्चित्रः । मधुरफलो वृत्तफलो घृणाफलो मांसलो नवधा ॥ २७१ ॥
गुणाः-कलिङ्गो मधुरः शीतः पित्तदाहश्रमापहः । वृष्यः संतपणो बल्यो वीर्यपुष्टिविवर्धनः ॥ २७२ ॥
वन्ध्यकर्कोटकी । (त्रपुसविशेषः) ॥ ४६ ॥ वन्ध्यकर्कोटकी देवी मनोज्ञा च कुमारिका । नागारिः सर्पदमनी विषकण्टकिनी तथा ॥ १८५ ॥ विज्ञेया नागदमनी सर्वभूतप्रमर्दिनी । व्याघ्रपादप्रजा चैव ज्ञेया योगीश्वरी तथा ॥ १८६ ॥ गुणाः-नागारिलूताविषजिद्धन्ति श्लेष्मविषद्वयम् । __ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः
वन्ध्या देवी वन्थ्यकर्कोटकी स्यानागारातिर्नागहत्री मनोज्ञा । पथ्या दिव्या पुत्रदात्री सुकन्दा श्रीकन्दा सा कन्दवल्लीश्वरी च ॥ २७३ ॥ सुगन्धा सर्पदमनी विषकण्टकिनी वरा । कुमारी विषहत्री च नाम्नामित्यूनविंशतिः ॥ २७४॥
गुणाः-वन्ध्यकर्कोटकी तिक्ता कटूष्णा च कफापहा । स्थावरादिविषघ्नी च शस्यते सा रसायने ॥२७५ ।।
कर्कोटकी । ( त्रपुसविशेषः ) ॥४७॥ कर्कोटकी स्वादुफला मनोज्ञा च कुमारिका । अवन्ध्या चैव देवी च विषप्रशमनी तथा ॥ १८७ ॥
१ घ. गरी कन्या स। २ ख. वन्ध्यापुत्रप्रदा ।
For Private and Personal Use Only