________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः] राजनिघण्टुसहितः।
क्षीरिणी काञ्चनक्षीरी कर्षणी कटुपर्णिका । तिक्तदुग्धा हैमवती हिमदुग्धा हिमावती ॥ ३६२ ॥ हिमाद्रिजा पीतदुग्धा यवचित्रा हिमोद्भवा । हैमी च हिमजा चेति चतुरेकगुणावया ॥ ३६३ ॥ ___ गुणा:-क्षीरिणी कटुतिक्ता च रेचनी शोफतापनुत् । कृमिदोषकफनी च पित्तज्वरहरा च सा ॥ ३६४ ॥
सर्वक्षीरी (क्षीरिणीविशेषः) ॥५९ ॥ सर्वक्षीरी स्वर्णदुग्धा सुवर्णक्षीरिकोऽपि च । हेमाहा कनकक्षीरी हेमक्षीरी च काश्चनी ॥ २४२॥ गुणाः—क्षीरिणीयुगुलं तिक्तं कृमिपित्तकफापहम् ।
राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःस्वर्णक्षीरी स्वर्णदुग्धा स्वर्णाहा रुक्मिणी तथा। सुवर्णा हेमदुग्धी च हेमक्षीरी च काश्चनी ॥ ३६५ ॥
गुणाः-स्वर्णक्षीरी हिमा तिक्ता कृमिपित्तकफापहा । मूत्रकृच्छ्राश्मरीशोफदाहज्वरहरा परा ॥ ३६६ ॥
(७३) श्यामा । श्यामा त्रिन्मालविका मसूरविदला च सा । कालार्धचन्द्रा कालिन्दी सुषेणी कालमेष्यपि ॥ २४३ ॥
गुणाः-त्रिवृता कटुरुष्णा तु कृमिश्लेष्मोदरज्वरान् । शोफपाण्ड्वामयप्लीहान्हन्ति श्रेष्ठा विरेचने ॥ २४४ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:उक्ता त्रिवृन्मालविका मसूरा श्यामाऽऽर्धचन्द्रा विदला सुपेणी । कालिन्दिका सैव तु कालमेषी काली त्रिवेलाऽवनिचन्द्रसंज्ञा ॥ ३६७ ॥
गुणाः-त्रिवृत्तिक्ता कटूष्णा च कृमिश्लेष्मोदरातिजित् । कुष्ठकण्डूत्रणान्हन्ति प्रशस्ता च विरेचने ॥ ३६८ ॥
शुक्राण्डी ( श्यामाविशेषः) ॥६० ॥ । शुक्रभाण्डी त्रिभण्डी स्यात्काकाक्षी सैरला त्रिवृत् । सर्वानुभूतित्रिपुटा व्यस्रा कुमुदगन्धिनी ॥ २४५ ॥
१ क. ङ. का मता । हे । २ क. हेमाङ्गा । ३ क. 'लपुष्प्यपि। ४ क, च. शुक्लभण्डी । ५ क. ड. च. रसना । ६ क. स. ङ. च. कोटरवासिनी ।
For Private and Personal Use Only