________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःगुणाः-कर्कटी मधुरा शीता त्वक्तिक्ता कफपित्तजित् । रक्तदोषकरा पक्का मूत्ररोधार्तिनाशनी ॥ २५३ ॥ मूत्रावरोधशमनं बहुमूत्रकारि कृच्छ्राश्मरीप्रशमनं विनिहन्ति पित्तम् । वान्तिश्रमन्नबहुदाहनिवारि रुच्यं श्लेष्मापहं लघु च कर्कटिकाफलं स्यात् ॥ २५४ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गः
षड्भुजा (त्रपुसविशेषः ) ॥ ३७॥ अथ षड्भुजा मधुफला षड्रेखा वृत्तकर्कटी तिक्ता । तिक्तफला मधुपाका वृत्तेर्वारुश्च षण्मुखा नवधा ॥ २५५ ॥ __ गुणाः-तिक्तं वाल्ये तदनु मधुरं किंचिदम्लं च पाके निष्पकं चेत्तदमृतसमं तर्पणं पुष्टिदायि । वृष्यं दाहश्रमविशमनं मूत्रवृद्धिं च धत्ते पित्तोन्मादापहरकफदं पाइभुजं वीर्यकारि ॥ २५६ ॥
शीर्णवृत्तम् (त्रपुसविशेषः ) ॥ ३८ ॥ शीर्णवृत्तं चित्रफलं विचित्रं पीतवर्णकम् । गुणाः-शीर्णवृत्तं लघु स्वादु भेयुष्णं वह्निपित्तकृत् ॥ १७९ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गः
मृगाक्षी (त्रपुसविशेषः ) ॥ ३९ ॥ मृगाक्षी शतपुष्पा च मृगेर्वारुमगादनी । चित्रवल्ली बहुफला कपिलाक्षी मृगेक्षणा ॥ २५७ ॥ चित्रा चित्रफला पथ्या विचित्रा मृगचिर्भिटा । मरुजा कुम्भसी देवी कट्फला लघुचिभिटा ॥ २५८ ॥ सेन्दिनी च महादेवी ज्ञेया चैकोनविंशतिः।
गुणाः-मृगाक्षी कटुका तिक्ता पाकेऽम्ला वातनाशनी । पित्तकृत्पीनसहरा दीपनी रुचिकृत्परा ।। २५९ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग:
चीणाकर्कटी। (त्रपुसविशेषः)॥४०॥ चीणाकर्कटिका ज्ञेया बीजकर्कटिका तथा । सुदीर्घा राजिलफला बाणैः कुलककर्कटी ॥ २६०॥ __गुणाः-चीणाकर्कटिका रुच्या शिशिरा पित्तनाशनी । मधुरा तृप्तिदा हृद्या दाहशोषापहारिणी ॥ २६१ ॥
१८. मूत्रशुद्धिं ।
For Private and Personal Use Only