________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःगोरक्षतुम्बी ( अलाम्बुनीविशेषः ) ॥ ३१॥ गोरक्षतुम्बी गोरक्षी नवालाम्बुर्घटाभिधा । कुम्भालाम्बुर्घटालाम्बुः कुम्भतुम्बी च सप्तधा ॥ २३६ ॥
गुणाः-कुम्भतुम्बी समधुरा शिशिरा पित्तहारिणी । गुरुः संतर्पणी रुच्या वीर्यपुष्टिबलप्रदा ॥ २३७॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग:
क्षीरतुम्बी ( अलाम्बुनीविशेषः ) ॥ ३२ ॥ क्षीरतुम्बी दुग्धतुम्बी दीर्घवृत्तफलाभिधा । इक्ष्वाकुः क्षत्रियवरा दीर्घबीजा महाफला ॥ २३८ ॥ क्षीरिणी दुग्धबीजा च दन्तबीजा पयस्विनी । महावल्ली ह्यलाम्बुश्च श्रमन्त्री शरभूमिता ॥ २३९ ॥
गुणाः—तुम्बी समधुरा स्निग्धा पित्तघ्नी गर्भपोषकृत् । वृष्या वातप्रदा चैव बलपुष्टिविवर्धनी ॥ २४ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग:
अतुम्बी ( अलाम्बुनीविशेषः ) ॥ ३३ ॥ भतुम्बी नागतुम्बी च शक्रचापसमुद्भवा । वल्मीकसंभवा देवी दिव्यतुम्बी पडावया ॥ २४१॥
गुणाः-भूतुम्बी कटुकोष्णा च संनिपातापहारिणी । दन्तार्गलादन्तरोधधनुर्वातादिदोषनुत् ॥ २४२ ॥
(५५)जीमूतकः । जीमूतको देवतांडो वृत्तकोशो गरागरी । प्रोक्ताऽऽखुविषहा वेणी देवदाली च ताडका ॥ १७३॥
गुणाः-जीमूतको ज्वरश्वासकासहिध्मारुचिक्षये । शोफपाण्डुविपद्वेषी गरेषु वमने हितः ॥ १७४ ॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:जीमूतकः कण्टफला गरागरी वेणी सहा कोशफला च कट्फला। घोरा कदम्बा विषहा च कर्कटी स्यादेवदाली खलु सारमूपिका ॥ २४३ ॥ वृत्तकोशा विषघ्नी च दाली लोमशपत्रिका । तुरङ्गिका च तर्कारी नाम्नामेकोनविंशतिः॥२४४ ॥
गुणाः-देवदाली तु तिक्तोष्णा कटुः पाण्डुकफापहा । दुर्नामश्वासकासन्नी कामलाभूतनाशिनी ॥ २४५ ॥
१ क. ताङ्गो वृ। ङ. च. 'ताङ्गो गकोशा नागरागिरा । प्रो'
For Private and Personal Use Only