________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१ प्रथमो वर्गः]
राजनिघण्टु सहितः ।
३९
स्मृता चन्द्राभिधा राजी कालमाषी तथैन्दवी || २२७ || कुष्ठदोषापहा चैव कान्तिदा वल्गुजा तथा । चन्द्राभिधा प्रभायुक्ता विंशतिः स्यात्तु नामतः ।। २२८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गुणाः - बाकुची कटुतिक्तोष्णा कृमिकुष्ठकफापहा । त्वग्दोषविषकण्डूतिखर्जुप्रशमनी च सा ।। २२९ ॥
२
( ५३ ) मदनः ।
मदनः शल्यको राटः पिण्डी पिण्डीतकः फलः । तैगरः करहाटश्च च्छर्दनो विषपुष्पकः ।। १६८ ।।
गुणाः -- मदनः कटुकस्तिक्तस्तथा चोष्णो व्रणापहः । श्लेष्मज्वरप्रतिश्यायगुल्मेषु विद्रधीषु च ।। १६९ ।। शोफस्यापि हरो बस्तौ वमने चेह शस्यते । राजनिघण्टौ शाल्मल्यादिरष्टुमो वर्ग:
मदनः शल्यकैडर्यः पिण्डी धाराफलस्तथा । तरटः करहाटच राहुः पिण्डातकः स्मृतः || २३० ।। घण्टालो मादनो हर्षो घण्टाख्यो बस्तिरोधनः || २३१ ।। ग्रन्थिफलो गोलफलो मदनाह्वश्च विंशतिः ।। २३२ ।।
गुणाः— मदनः कटुतिक्तोष्णः कफवातव्रणामहः । शोफदोषापचैव वमने च प्रशस्यते ॥ २३३ ॥
(५४) कटुकालाम्बुनी ।
कटुकालाम्बुनी तुम्बी लम्बा पिण्डफला च सा । इक्ष्वाकुः क्षत्रियवरा तिक्तबीजा महाफला ॥ १७० ॥
गुणाः—कासश्वासच्छर्दिहरा विषार्ते कफकर्षिते । इक्ष्वाकुर्वमने शस्तः प्रशाम्यति च मानवः ॥ १७१ ॥ कटुतुम्बी कटुस्तिक्ता वातकृच्छ्रासकासजित् । * कासनी शोधनी शोफव्रणशूलविषापहा ॥ १७२ ॥ * द्वितीया भिन्नविक्रान्ता गुर्वीं रूक्षाऽतिशीतला ।
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः
कटुतुम्बी कटुफला तुम्बिनी कटुतुम्बिनी । वृहत्फला राजपुत्री तिक्तवीजा च तुम्बा || २३४ ॥
गुणाः कटुतुम्बी कटुस्तीक्ष्णा वान्तिकृच्छ्रासवातजित् । * * ।। २३५ ।। राजनिघण्टौ मूलकादिः सप्तमो वर्ग:
१ क ग. ङ. च. गालवः । २क. ख. विषमुष्टिकः ।
For Private and Personal Use Only