________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः ]
राजनिघण्टु सहितः ।
** ॥ १०९ ॥ श्वेता चोपलभेदी च नगजिच्छिलगर्भजा ॥ गुणाः - पाषाणभेदी मधुरस्तिक्को मेहविनाशनः । तृड्दाहमूत्रकृच्छ्रघ्नः शीतलश्वाश्मरीहरः ।। २१० ॥
राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः-
वटपत्री ( पाषाणभेदकविशेषः ) ॥ २८ ॥
अन्या तु वटपत्री स्यादन्या चैरावती च सा । गोधावतीरावती च श्यामा खट्वाङ्गनामिका ।। २११ ॥
गुणाः - वटपत्री हिमा गौल्या मेहकुच्छ्रविनाशिनी । बलदा व्रणही च किंचिद्दीपनकारिणी ॥। २१२ ।।
राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः
श्वेतशिला ( पाषाणभेदकविशेषः ) ॥ २९ ॥
३७
अन्या श्वेता शिलावल्का शिलजा शैलवल्कला । वल्कला शैलगर्भाद्दा शिलात्वक्सप्तनामिका ।। २१३ ।।
गुणाः- शिलावल्कं हिमं स्वादु मेहकृच्छ्रविनाशनम् । मूत्रारोधाश्मरीशूलक्षयपित्तापहारकम् ।। २१४ ॥
राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः
चतुष्पत्री ( पाषाणभेदकविशेषः ) ।। ३० ।।
क्षुद्रपाषाणभेदाऽन्या चतुष्पत्री च पार्वती । नागभूरश्मकेतुश्च गिरिभूः कन्दरोद्भवा ।। २१५ ।। शैलोद्भवा च गिरिजा नगजा च दशाह्वया । गुणाः - क्षुद्रपाषाणभेदा च व्रणकृच्छ्राश्मरीहरा ॥ २१६ ॥ ( ४९ ) श्रावणी |
श्रावणी स्यान्मुण्डिनका भिक्षुः श्रवणशीर्षिका । श्रावणाह्वा प्रवजिता परित्राजी तपोधना ।। १५९ ।। महाश्रावणिका मुण्डी लोभनीया तथाऽन्यथा । कदम्बपुष्पिका प्रोक्ता छिन्नग्रन्थिनिका च सा ।। १६० ।।
गुणाः मुण्डिका कटुतिक्ता स्यादनिलास्रविनाशिनी । आमारुचिघ्न्यपस्मारगण्डश्लीपदनाशिनी ॥ १६१ ॥
राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः
For Private and Personal Use Only
श्रावणी स्यान्मुण्डिनिका भिक्षुः श्रवणशीर्षिका । श्रवणा च प्रब्रजिता परिवाजी तपोधना ।। २१७ ॥
१ क. ङ. च. 'जी तथा घना । २क. घ. ङ. 'स्याद्रातपित्तास्रना ।