________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःगुणाः–कपिकच्छूः स्वादुरसा वृष्या वातक्षयापहा । शीतपित्तास्रहत्री च विकृतवणनाशिनी ॥ २०३ ॥
दधिपुष्पी । ( कपिकच्छूविशेषः ) ॥ २७ ॥ दधिपुष्पी तु खट्वाङ्गी खट्वा पर्यङ्कपादिका । वृषभी सा तु काकाण्डी ज्ञेया सूकरपादिका ॥ १५३ ॥
गुणाः–कफपित्तहरा गुर्वी रञ्जनी वातनाशिनी । उष्णवीर्या स्वादुरसा काकाण्डी माषवद्भवेत् ॥ १५४ ॥
राजनिघण्टौ मूलकादिः सप्तमो वर्गःदधिपुष्पी खट्वाङ्गी खट्वा पर्यपादिका कूपा । खट्वापादी वंश्या काकोली कोलपालिका नवधा ॥ २०४ ॥
गुणाः-दधिपुष्पी कटुमधुरा शिशिरा संतापपित्तदोषघ्नी । वातामयदोषकरी गुरुस्तथाऽरोचकनी च ॥ २०५ ॥
(४७) शितिवारः । (शितिवारकः) शितिवारः सूचिपत्रः सूच्याह्नः सुनिषण्णकः । श्रीवारकः शितिवरः स्वस्तिकः कुक्कुटः शिखी ॥ १५५ ॥ __गुणाः-*सुनिषण्णोऽग्निकदृष्यो गुरुयाही त्रिदोपजित् । शितिवारस्तु संग्राही कपायः सर्वदोपजित् ॥ १५६ ॥
राजनिघण्टौ शताहादिश्चतुर्थो वर्ग:शितावरी शितवरः सच्याहः सूचिपत्रकः।श्रीवारकः शिखी वधूः स्वस्तिकः सुनिषण्णकः ॥ २०६ ॥ कुरुटः कुक्कुटः सूचिदलः श्वेताम्बरोऽपि सः । मेधाकुराहकश्चेति ज्ञेयः पञ्चदशाह्वयः ॥ २०७॥
गुणाः-शितिवारस्तु संग्राही कषायोष्णस्त्रिदोषजित् । मेधारुचिप्रदो दाहज्वरहारी रसायनः ॥ २०८ ॥
(४८) पाषाणभेदकः। * पाषाणभेदकोऽश्मनः शिलाभेदोऽश्मभेदकः । * स चैवोपलभेदश्च नगभिदृषदश्मजित् ॥ १५७॥
गुणाः-पाषाणभेदकः शूलकृच्छ्रमेहत्रिदोषजित् । हृद्रोगप्लीहगुल्मार्शोवस्तिशुद्धिकरः परः ॥ १५८ ॥ अश्मभेदो हिमस्तिक्तः शर्कराशिश्नशूलजित् ।
राजनिघण्टौ पर्पटादिः पञ्चमो वर्ग:
*छपुस्तकेऽयं चार्ध श्लोकः-हृद्रोगप्लीहगुल्माशेबस्तिशुद्धिकरः परः ॥
For Private and Personal Use Only