________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः] राजनिघण्टुसहितः।
गुणाः-विदारी शिशिरा स्वादुर्गुरुः स्निग्धा समीरजित् । पित्तास्रजित्तथा वल्या वृष्या चैव प्रकीर्तिता ॥ १४८ ॥
राजनिघण्टौ मूलकादिः सप्तमो वर्ग:विदारिका स्वादुकन्दा सिता शुक्ला शृगालिका । विदारी वृष्यकन्दा च विडाली वृष्यवल्लिका ॥ १९३ ॥ भूकूष्माण्डी स्वादुलता गजेष्टा वारिवल्लभा। ज्ञेया कन्दफला चेति मनुसंख्या ह्वयामता ॥ १९४ ॥ .. गुणाः-विदारी मधुरा शीता गुरुः स्निग्धाऽपित्तजित् । ज्ञेया च कफकृत्पुष्टिबल्या वीर्यविवर्धनी ॥ १९५ ॥
क्षीरविदारी (विदारिकाविशेषः) ॥२६॥ अन्या क्षीरविदारी स्यादिक्षुगन्धेक्षुवल्लयपि । क्षीरवल्ली क्षीरकन्दा क्षीरशुक्ला पयस्विनी ॥ १४९ ॥
गुणाः-विदारिकन्दो बल्यश्च वातपित्तहरश्च सः । मधुरो बृंहणो वृष्यः शीतस्पर्शोऽतिमूत्रकः ॥ १५० ॥ स्तनदोषस्य हरणी गूढवृष्यविषदनी।
राजनिघण्टौ मूलकादिः सप्तमो वर्गःअन्या क्षीरविदारी स्यादिक्षुगन्धेचवल्लरी । इक्षुवल्ली क्षीरकन्दः क्षीरवल्ली पयस्विनी ॥ १९६ ॥ क्षीरशुक्ला क्षीरलता पयःकन्दा पयोलता । पयोविदारिका चेति विज्ञेया द्वादशाह्वया ॥ १९७ ॥ ___गुणाः-ज्ञेया क्षीरविदारी च मधुराम्ला कपायका । तिक्ता च पित्तशूलनी मूत्रमेहामयापहा ॥ १९८ ॥ क्षीरकन्दो द्विधा प्रोक्तो विनालस्तु सनालकः । विनालो रोगहर्ता स्याद्वयस्तम्भी सनालकः ॥ ४९९ ॥
(४६) कपिकच्छ्रः । *कपिकच्छूरात्मगुप्ता स्वयंगुप्ता महर्षभी । *लाङ्गली कैण्डला चण्डा मर्कटी दुरभिग्रहा ॥ १५१॥ ___ गुणाः-कपिकच्छू रसे स्वादुस्तिक्ता शीताऽनिलापहाँ । वृष्या पित्तात्रहन्त्री च दुष्टवणविनाशिनी ॥ १५२ ॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः___ * * ॥ २०० ॥ कपिरोमफला गुप्ता दुःस्पर्शा कच्छुरा जया । प्रावृषेण्या शूकशिम्बी बदरी गुरुरापभी ॥२०१॥ शिम्बी वराहिका तीक्ष्णा रोमालुर्वनसूरिका । कीशरोमा रोमवल्ली स्यात्पड्विंशतिनामका ॥ २०२॥
१ झ. 'त्रलः ॥ स्त। २ ङ. च. कण्डरा । ३ क. ङ. च. हा । शीतपि ।
For Private and Personal Use Only