________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४
धन्वन्तरीयनिघण्टुः
क्लीतनकम् । (मधुयष्टीविशेषः ) ।। २५ ।।
तल्लक्षणं कीतनकं क्लीतनं क्लीतिका च सा । स्थलजा जलजाऽन्या तु मधुपर्णी मधूलिका ।। १४४ ॥
गुणाः यष्टिका युगुलं स्वादु तृष्णापित्तास्रजित्समम् । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः
Acharya Shri Kailassagarsuri Gyanmandir
[ गुडूच्यादि:
अन्यत्क्लीतनमुक्तं क्लीतनकं क्लीतनीयकं मधुकम् । मधुवल्ली च मधूलो मधुरंलता मधुरसाऽतिरसा || १८४ ।। शोषापहा च सौम्या स्थलजा जलजा च सा द्विधाभूता । सामान्येन मतेयं द्वादशसंज्ञा बहुज्ञधिया ।। १८५ ।।
गुणाः कीतनं मधुरं रुच्यं बल्यं वृष्यं व्रणापहम् । शीतलं गुरु चक्षुष्यमेस्रपित्तापहं परम् ।। १८६ ॥
(४४) ऋद्धिः ।
ऋद्धिर्वृद्धिः सुखं सिद्धी रथाङ्गं मङ्गलं वसु । ऋषिसृष्टा युगं योग्यं लक्ष्मीः सर्वजनप्रिया ।। १४५ ॥
गुणाः ऋद्धिर्मधुरशीता स्यात्क्षयपित्तानिलाञ्जयेत् । रक्तदोषज्वरं हन्ति वर्धनी कफशुक्रयोः ॥ १४६ ॥
राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः
ऋद्धिः सिद्धिः प्राणदा जीवदात्री सिद्धा योग्या चेतनीया रथाङ्गी । मङ्गल्या स्याल्लोककान्ता यशस्या जीवश्रेष्ठा द्वादशाह्वा क्रमेण ॥ १८७ ॥ वृद्धिस्तुष्टिः पुष्टिदा वृद्धिदात्री मङ्गल्या श्रीः संपदा श्रीर्जनेष्टा । लक्ष्मीर्भूतिर्मुत्सुखं जीवभद्रा ज्ञेया एवं विंशतिः सप्त चाऽऽह्वाः ॥ १८८ ॥ ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कोशयामले | श्वेतरोमान्वितः कन्दो लताजातः सरन्ध्रकः ।। १८९ ॥ तूलग्रन्धिसमा ऋद्धिर्वामावर्तफला च सा । वृद्धिस्तु दक्षिणावर्तफला प्रोक्ता महर्षिभिः ।। १९० ।।
गुणाः ऋद्धिर्वृद्धिश्च मधुरा सुस्निग्धा तिक्तशीतला । रुचिमेधाकरी श्लेष्मकुष्ठकृमिहरा परा ।। १९१ ।। प्रयोगेष्वनयोरेकं यथालाभं प्रयोजयेत् । यत्र द्वयानुसृष्टिः स्याद्वयमप्यत्र योजयेत् ।। १९२ ॥
(४५) विदारिका ।
For Private and Personal Use Only
विदारिका मता शुक्ला स्वादुकन्दा शृगालिका । वृष्यकन्दा विदारी च वृष्यवल्ली विडालिका ॥ १४७ ॥
१ झ नामम । २ झ. ढ. 'मम्लपि । ३ क. ङ. च पिश्रेष्ठा यु । ४ झ. वृक्षक। ५ झ. वृक्षव ।