________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः ] राजनिघण्टुसहितः।
मुद्गपर्णी क्षुद्रसहा शिम्बी मार्जारगन्धिका । वनजा रिङ्गिणी हस्वा शूर्पपर्णी कुरङ्गिका ॥ १७४ ॥ कांसिका काकमुद्गा च वनमुद्गा वनोद्भवा । अरण्यमुद्गा वन्येति ज्ञेया पञ्चदशावया ॥ १७५ ॥
गुणाः—मुद्गपर्णी हिमा कासवातरक्तक्षयापहा । पित्तदाहज्वरान्हन्ति चक्षुष्या शुक्रवृद्धिकृत् ॥ १७६ ॥
(४२) जीवन्ती। जीवन्ती जीवनीया च जीवनी जीववर्धनी । माङ्गल्यनामधेया च शाकश्रेष्ठा यशस्करी ॥ १४०॥
गुणाः-चक्षुष्या सर्वदोपनी जीवन्ती मधुरा हिमा । शाकानां प्रवरा यूनां द्वितीया किंचिदेव तु ॥ १४१ ।।
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:जीवन्ती स्याज्जीवनी जीवनीया जीवा जीव्या जीवदा जीवदात्री । शाकश्रेष्ठा जीवभद्रा च भद्रा मङ्गल्या च क्षुद्रजीवा यशस्या ॥ १७७ ॥ शृङ्गाटी जीवपृष्ठा च काञ्जिका शशशिम्बिका। सुपिङ्गलेति जीवन्ती ज्ञेया अष्टादशाभिधा ॥ १७८ ॥ जीवन्त्यन्या बृहत्पूर्वा पुत्रभद्रा पियंकरी । मधुरा जीवपृष्टा च बृहजीवा यशस्करी ॥ १७९ ॥
गुणाः—जीवन्ती मधुरा शीता रक्तपित्तानिलापहा । क्षयदाहज्वरान्हन्ति कफवीर्यविवर्धिनी ॥ १८० ॥ एवमेव बृहत्पूर्वा रसवीर्यबलान्विता। भूतविद्रावणी ज्ञेया वेगाद्रसनियामिका ॥ १८१ ॥
(४३) मधुयष्टी। मधुयष्टी च यष्टी च यष्टीमधु मधुरवा । यष्टीकं मधुकं चैव यष्ट्याहूं मधुयष्टिका ॥ १४२ ॥
गुणाः-मधुयष्टिः स्वादुरसा शीतपित्तविनाशिनी । वृष्या शोषक्षयहरा विषच्छर्दिविनाशनी ॥ १४३ ॥
राजनिघण्टौ पिप्पल्यादिः पष्ठो वर्गःयष्टीमधुर्मधुयष्टी मधुवल्ली मधुस्रवा । मधुकं मधुका यष्टी यष्ट्या वसुसंमितम् ॥ १८२॥
गुणाः-मधुरं यष्टिमधुकं किंचित्तिक्तं च शांतलम् । चक्षुष्यं पित्तदुच्यं शोषतृणावणापहम् ॥ १८३ ॥
१क. ड. च. ल्यमागधे । २ ग. मा शिशिरा पित्तना।
For Private and Personal Use Only