________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३९
एकार्थायभिधानद्रव्यावलिः। २३ मयूरः-अपामार्गः, अजमोदा, तुत्थकश्च । २४ पाक्यम्-विडलवणम्, यवक्षारम्, सौर्वचलं च । २५ मधुपर्णी-गुडूची, काश्मरी, नलिका च । २६ लक्ष्मीः-शमी(ठी) पद्मचारिणी, ऋद्धिश्च । २७ घोण्टा-बदरी, पूगः, मदनफलं च । २८ वारिजः-शङ्खः, पद्मम्, लवङ्गं च । २९ मर्कटी-आत्मगुप्ता, अपामार्गः, वल्लीकरञ्जश्च । ३० बदरा-सुवर्चला, अश्वगन्धा, वराही च । ३१ कपीतनः--आम्रातकः, प्लक्षः, शिरीषश्च । ३२ सोमवल्कः-श्वेतखदिरः, कट्फलम्, विद्खदिरं च । ३३ सहस्रवेधी-अम्लवेतसः, हिङ्गः, कस्तूरिका च । ३४ काश्मीरः-पुष्करमूलम्, कुङ्कुमम्, काश्मयै च । ३५ प्रियकः-अशनः, प्रियङ्गुः, कदम्बश्च । ३६ पारिभद्रकः-निम्बः, पारिजातः, देवदारुश्च । ३७ जीवन्ती-गुडूची, वृक्षरुहः, शाकविशेषश्च । ३८ हेमपुष्पी-बिम्बी, दुस्पर्शा, पीतयूथिका च । ३९ पद्मा-चारिणी, भाङ्गी, पद्मनालिका च । ४० समुद्रान्ता-कापासी, यवासकः, स्पृक्का च । ४१ चुक्रिका-चाङ्गेरी, शण्डाकी, अम्लिका च । ४२ चुक्रम्-क्षुद्राम्ला, अम्लवेतसः, चुकं च। ४३ भूतिकम्-भूतृणम्, कतृ(तृणम्, भूनिम्बश्च । ४४ रसा (सुरसा)-रास्ना, सल्लकी, पाठा च। ४५ अनन्ता-यवासकः, लागली, दूर्वा च । ४६ कृष्णवृन्तिका-पाटला, काश्मरी, माषपर्णी च । ४७ नादेयी--जलजम्बू:, जलवेतसः, तोरी च । ४८ गोमेदकः-पत्रकम्, अङ्कोल्लः, रत्नविशेषश्च । ४९ सौगन्धिकम्-नीलपद्मम्, कत(त्तृ )णम्, गन्धपाषाणश्च । ५० सुवहा–रास्ना, शेफालिका, गन्धनाकुली च । ५१ पलङ्कषा-गुग्गुलुः, लाक्षा, गोक्षुरकश्च ।। ५२ हैमवती-हरीतकी, सीहुण्डः, श्वेतवचा च । ५३ पथ्या-हरीतकी, महाश्रावणी, पद्मचारिणी च । ५४ ताम्रपुप्पी-धातकी, वित्, पाटला च ।
For Private and Personal Use Only