________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३ त्रयोविंशो वर्गः] राजनिघण्दुः । गण्डदूर्वा गवाक्षी चे चित्रायामृक्षमेकतः ॥५॥ रास्ना पाठा प्रियङ्गुश्च सितक्षुद्रा हरीतकी । श्रेयस्यां चेति संप्रोक्ता अम्बष्ठा गजपिप्पली ॥६॥
इति सप्तार्थाः ।
अथाष्टार्थाः।
विजया काञ्चनद्वंद्वं मञ्जिष्ठा च वचा तथा । स्यात्तथा श्वेतनिर्गुण्डी जयन्ती काञ्जिकाऽभया ॥ १ ॥ एरण्डनद्याम्रलताकरञ्जाः स्याब्रह्मदण्डी पनसः कुसुम्भः । स्याद्गोक्षुरः कण्टफले च धूर्तो भिषग्भिरष्टाविति संपदिष्टाः॥२॥ खणे कपिच्छे दधिनारिकेरयोः स्याज्जीवके चेत्स्थलपद्मफे तथा । मयूरकेतौ समधूकके तथा माङ्गल्यमष्टाविति संप्रचक्षते ॥ ३ ॥
इत्यष्टार्थाः ।
अथ नवार्थाः।
वातारिर्जतुकायां च भल्यां मीलदवञ्ज(शतमूलीविडङ्ग)योः। टेटुकामण्डयोभा निर्गुण्ड्यां सूरणे स्मृतः॥१॥धात्री गुडूची रास्ता च द्विधा दूर्वा हरीतकी।लिङ्गिनी तुवरी मद्यं धीमतायां नैवौषधी ॥२॥ ब्राह्मी वराही लशुनी विषं च शुक्लादिकन्दः सितकण्टकारी । भूम्याहुली चेदपराजिता च शुण्ठीति चैतासु महौषधी स्यात् ॥ ३ ॥
इति नवार्थाः।
अथ दशार्थाः।
सितायां वाकुची दूर्वा मद्यं धात्री कुटुम्बिनी । चन्द्रिका च प्रिया पिङ्गा बायमाणा च तेजिनी ॥१॥
इति दशार्थाः ।
१ ज. झ. ढ, च सिमाक्षु। २ ज. झ. ट. की।ई। ३ ट, नवौषधम् ।
For Private and Personal Use Only