________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२० परिशिष्टो
[ मिश्रकादि:(९) देवकर्दमः-श्रीखण्डागरुकर्पूरकाश्मीरैस्तु समांशकैः । मृगाङ्कमुकुटाोऽयं मिलितैर्देवकर्दमः ॥९॥
(१०) मूत्रपञ्चकम्---गवामजानां मेषीणां महिषीणां च मिश्रितम् । मूत्रेण गर्दभीनां यत्तन्मूत्रं मूत्रपञ्चकम् ॥ १०॥
(११) त्रिलोहकम्-सुवर्ण रजतं तानं त्रयमेतत्रिलोहकम् । ( १२ ) पञ्चलोहकम्-वङ्गनागसमायुक्तं तत्याहुः पञ्चलोहकम् ॥ ११॥ ( १३ ) द्वितीयं पञ्चलोहकम्—सुवर्ण रजतं तानं त्रपु कृष्णायसं समम् । ग्रहामिति वोद्धव्यं द्वितीयं पञ्चलोहकम् ॥ १२॥
(१४ ) सप्त धातवः-रसामृङ्मांसमेदोस्थिमज्जाशुक्राणि धातवः । शरीरस्थैर्यदैरेतैः सप्तधातुगणो मतः ॥ १३ ॥
( १५ ) अष्टलोहः–पञ्चलोहसमायुक्तैः कान्तमुण्डकतीक्ष्णकैः । कल्पितः कथितो धीरैरष्टलोहाभिधो गणः ॥१४॥
(१६) महारसाः-दरदः पारदः संस्यो वैक्रान्तं कान्तमभ्रकम् । माक्षिकं विमलं चेति स्युरेतेऽष्टौ महारसाः ॥ १५ ॥
( १७ ) उपरसाः-खेचराञ्जनककुष्ठगन्धोलगैरिकाक्षितीः । शैलेयाञ्जनसंमिश्राः शंसन्त्युपरसान्बुधाः ॥ १६ ॥
( १८ ) सामान्यरसाः-कम्पिल्लगौरीचपलाकपर्दसशैलसिन्दूरकवह्निजारान्। पाषाणिनो बोदरशृङ्गयुक्तानित्यष्टेसामान्यरसानि चाऽऽहुः ॥ १७ ॥
( १९ ) क्षारदशकम्-शिगुमूलकपलाशचुक्रिकाचित्रकाकसनिम्बसंभवैः । इक्षुशैखरिकमोचिकोद्भवैः क्षारपूर्वदशकं प्रकीर्तितम् ॥ १८ ॥
(२०) मूत्रदशकम्-मूत्राणि हस्तिमहिपोष्ट्रगवाजकानां मेपाश्वरासभकमानुपमानुषीणाम् । यत्नेन यत्र मिलितानि दशेति तानि शास्त्रेषु मूत्रदशकाहयभाजि भान्ति ॥ १९ ॥
( २१) मन्थः-सक्तुभिः सर्पिषाऽभ्यक्तैः शीतवारिपरिप्लुतैः । नात्यच्छो नातिसान्द्रश्च मन्थ इत्यभिधीयते ॥ २० ॥
(२२) सुरदारुकम्-भार्गीसँटीपुष्करवत्सबीजदुरालभागृङ्गिपटोलतिक्ताः। किरातविश्वेन्द्रकणेन्द्रवीजधान्यानि तिक्तं सुरदारुकं च ॥ २१ ॥ अष्टादशागाभिध एप योगः समागमे स्यादशमूलकेन । द्विधा च भार्यादिक एक एप ज्ञेयो द्वितीयस्तु किरातकादिः ॥ २२ ॥
१ ज. ट. तत्प्रोक्तं । २ ट, सीसं । ३ ज. ट. 'मलश्चति । ४ ज. 'न्धारीगै'। ट. 'न्धालिंगै'। ५ झ. ढ. 'टकं सूतसमानमाहुः । ६ ज. 'गीसटी । ७ झ. ढ. 'णेभवी । .
For Private and Personal Use Only