SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१९ २२ द्वाविंशो वर्गः ] राजनिघण्दुः । वल्लो वल्लचतुष्टयेन भिषजां माषो मतस्तच्चतुः। निष्को निष्कयुगं तु सार्धमुदितः कर्षः पलं तच्चतुस्तद्वत्तच्छतकेन चाथ च तुला भारस्तुलाविंशतिः ॥८॥ इत्थंसत्वरजस्तमस्त्रिगुणिकानुक्रान्तदोषत्रयपक्रान्तोचितकालदेशकलनाभिख्यानसुख्यापितम् । वर्ग स्वर्गसभासुभास्वरभिषग्वर्यातिवीर्यामयध्वंसाश्चर्यकरी प्रयाति मतिमानेनं पठित्वा प्रथाम् ॥८२॥ संग्रामोत्सङ्गारिङ्गत्तुरगखुरपटोबूतधात्रीरजोभिः संरभं याति सान्द्रे तमसि किल शमं यविषां याति सत्त्वम् । तस्यैषोऽप्येकविंशः श्रयति खलु कृतौ नामनिर्माणचूडारत्नापीडे प्रशान्ति नरहरिकृतिनः कोऽपि सत्त्वादिवर्गः ॥ ८३ ॥ इति श्रीनरहरिपण्डितविरचिते राजनिघण्टौ सत्त्वादिरेकविंशो वर्गः ॥ २१ ॥ अथ मिश्रकादिविंशो वर्गः___यान्यौषधानि मिलितानि परस्परेण संज्ञान्तरैर्व्यवहृतानि च योगंकृद्भिः । तेषां स्वरूपकथनाय विमिश्रकाख्यं वर्ग महागुणमुदारमुदीरयामः ॥ १ ॥ ( १ ) आद्यपुष्पकम्-चन्दनं कुङ्कुमं वारि त्रयमेतद्वरांर्धकम् । त्रिभागकुकुमोपेतं तदुक्तं चाऽऽद्यपुष्पकम् ॥ २ ॥ ( २ ) समत्रितयम्-हरीतकी नागरं च गुडश्चेति त्रयं समम् । समत्रितयमित्युक्तं त्रिसमं च समत्रयम् ॥ ३ ॥ ( ३ ) त्रिशर्करा---गुडोत्पन्ना हिमोत्पन्ना मधुजातेति मिश्रितम् । त्रिशर्करा च त्रिसिता सितात्रयसितात्रिके ॥ ४ ॥ ( ४ ) अञ्जनत्रितयम्-कालाञ्जनसमायुक्त पुष्पाञ्जनरसाञ्जने । अञ्जनत्रि. तयं प्राहुख्यञ्जनं चाञ्जनत्रयम् ॥ ५ ॥ (५) त्रिदोषम् वातः पित्तं कफश्चेति त्रयमेकत्र संयुतम् । दोषत्रयं विदोषं स्याद्दोषत्रितयमित्यपि ॥ ६ ॥ (६ ) त्रिदोषसमम्-वातपित्तकफा यत्र समतां यान्ति नित्यशः । त्रिदोपसममित्येतत्समदोपत्रयं तथा ॥ ७ ॥ (७ ) त्रिकण्टकम्-बृहती चाग्निदमनी दुःस्पर्शा चेति तु त्रयम् । कण्टकारीत्रयं प्रोक्तं त्रिकण्टं कण्टकत्रयम् ॥ ८ ॥ ( ८ ) त्रिकर्षिकम्-नागराऽतिविषा मुस्ता त्रयमेतत्रिकर्षिकम् । १ ज. गविद्भिः । २ ज. गर्शक'। ट. 'रार्थक' । ३ ज. ट. 'क्तं वाऽऽद्य । ४ ज. 'मोत्था च म । ५ ज. श. ढ. धुरा चेति । ६ ज 'ग्निधम' । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy