________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२० विंशो वर्गः ] राजनिघण्टुः । पित्तनाशनौ । कद्वम्लसंज्ञौ च रसौ मरुद्धरावित्थं द्विशोऽमी सकलामयापहाः ॥६७ ॥
(९८ ) मिश्ररसगुणाः-अन्योन्यं मधुराम्लौ लवणाम्लो कटुतिक्तकौ च रसौ। कटुलवणौ च स्यातां मिश्ररसौ तिक्त लवणौ च ॥६८॥ लवणमधुरौ विरुद्धावथ कटुमधुरौ च तिक्तमधुरौ च । साधारणः कषायः सर्वत्र समानतां धत्ते ॥ ६९ ॥ संधत्ते मधुरोऽम्लतां च लवणो धत्ते यथावस्थितिं तिक्ताख्यः कटुतां तथा मधुरतां धत्ते कषायाह्वयः। अम्लस्तिक्तरुचिं ददाति कटुको यात्यन्ततस्तिक्ततामित्येषां स्वविपाकतोऽपि कथिता पण्णां रसानां स्थितिः॥७०॥
(९९) षड्रसाः—मधुरोऽम्लः कटुस्तिक्तः कटुस्तुवर इत्यमी । क्रमादन्योन्यसंकीर्णा नानात्वं यान्ति पडूसाः ॥ ७१ ॥
( १०० ) रसभेदाः-आद्यायो मधुरादिश्चेदेकैकेनोत्तरेण युक् । द्विकभेदाः पञ्चदश पयायः पञ्चभिस्तथा ॥ ७२ ॥ आद्यः सानन्तरः प्राग्वदुत्तरेण युतो यदा । चतुभिरपि पर्यायैराये प्रोक्ता भिदा दश ॥ ७३ ॥ एवं द्वितीये पड्भेदास्तृतीये च त्रयः स्मृताः। चतुर्थे चैक इत्येते त्रिकभेदास्तु विंशतिः ॥ ७४ ॥ आद्यौ सानन्तरौ त्रिः (?) षडेकैकाग्रिमयोगतः । त्यक्ते द्वितीये चत्वारः स्वाग्रिमेकैकसंयुते ॥ ७५ ॥ आये त्यक्ते तु पञ्च स्युः स्वाग्रिमेकैकसंयुते । चतुष्कभेदा इत्येते क्रमात्पञ्चदशेरिताः। ॥७६ ॥ ततः पञ्चकभेदाः षडेकैकत्यागतः स्मृताः । एकः सर्वसमासेन व्यासे पडिति सप्त ते ॥७७॥ एवं त्रिपटिराख्याता रसभेदाः समासतः। तारतम्येष्वसंख्यातास्तान्वेत्ति यदि शंकरः ॥ ७८ ॥
(१०१ ) बृंहणादिनामानि—बृहणं पुष्टिदं पोष्यमुत्कं पीनत्वदं च तत् । वीर्यवृद्धिकरं वृष्यं वाजीकरणबीजकृत् ॥ ७९ ॥ आप्यायनं तर्पणं च प्रीणनं तोपणं च तत् । निष्यन्दनमभिष्यन्दि नेत्रद्रावं सरं च तत् ॥ ८० ॥
इति बहुविधरोगव्याधितोपक्रमोऽत्र प्रकृतभिषगनूक्ताहारपथ्यप्रयोगम् । इममखिलमुदित्वा वर्गमुत्सर्गसिद्धान्प्रवदतु स च विद्वानामयप्रत्ययांस्तान् ॥८१॥ येन व्याधिशतान्धकारपटलीनिष्कासनाभास्करप्रायेणापि पुनस्तरां प्रविहिता हन्त द्विषां व्याधयः । तस्यायं कृतिवाचि विंशतितमः श्रीमन्नृसिंहेशितुः शान्ति नामकिरीटमण्डनमणौ वर्गो गदादिर्गतः ॥ ८२॥
इति श्रीमन्नरहरिपण्डितविरचिते निघण्टुराजापरनाम्न्यभिधान
चूडामणौ रोगप्रकरणं नाम विंशो वर्गः ॥ २० ॥
-
For Private and Personal Use Only