________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टो
[ रोगादिः( ८१ ) आरोग्यम् - आरोग्यं रुनिवर्तनम् ॥५२॥
( ८२ ) पथ्यभेदाः-मण्डः पेयं विलेपी च यवागूः पथ्यभेदकाः । भक्तैविना द्रवो मण्डः पेयं भक्तसमन्वितः ॥ ५३ ॥ विलेपी बहुभक्तः स्याद्यवागूविरलद्रवा । विदलं माषमुद्गादि पक्कं तूंपाभिधानकम् ॥ ५४॥
(८३) व्यञ्जनादयः-व्यञ्जनं सूपशाकादि मिष्टान्नं तेमनं स्मृतम् । उपदंशो विदंशः स्यात्संधानो रोचकश्च सः ॥ ५५॥
( ८४ ) भोजनपाने-जेमनमभ्यवहारः प्रत्यवसानं च भोजनं जग्धिः । वल्भनमशनं स्वदनं निघसाहारौ च निगरणं न्यादः ॥५६ ॥ जक्षणं भक्षणं लेहः खादनं रसनस्वदौ । चर्वणं पानपीती च धयनं चूपणं भिधाः ॥ ५७ ॥
(८५) मधुरः-मधुरं गोल्यमित्याहुरिक्ष्वादौ च स लक्ष्यते । (८६ ) लवणः-लवणस्तु वैरः प्रोक्तः सैन्धवादौ स दृश्यते ॥ ५८ ॥ (८७ ) तिक्त:--तिक्तश्च पिचुपन्दादौ व्यक्तमास्वाद्यते रसः । (८८) कषायः-कषायस्तुवरः प्रोक्तः स तु पूगिफलादिषु ॥५९ ॥ (८९) अम्लः-अम्लस्तु चिञ्चाजम्बीरमातुलिङ्गफलादिषु । (९०) कटुकः--कटुस्तु क्षारसंज्ञः स्यान्मरीचादौ स चेक्ष्यते ॥६० ॥
(९१) मधुरगुणाः-मधुरश्च रसश्चिनोति केशान्वपुषः स्थैर्यवलौजवीर्यदायी । अतिसेवनतः प्रमेहशैत्यं जडतामान्यमुखान्करोति दोषान् ॥ ६१ ॥
( ९२ ) लवणगुणाः-लवणो रुचिकृद्रसोऽग्निदायी पचनः स्वादुकरश्च सारका । अतिसेवनतो जरां च पित्तं सितिमानं च ददाति कुष्ठकारी ॥२॥
(९३ ) तिक्तगुणाः-तिक्तो जन्तून्हन्ति कुष्ठं ज्वराति कासं दाहं दीपनो रोचनश्च । मर्चे गाढं प्रत्यहं सेवितश्चेत्तीनं दत्ते राजयक्ष्माणमेषः ॥ ६३ ॥
(९४ ) कपायगुणाः-कषायनामा निरुणद्धि शोर्फ वर्ण तनोर्दीपनपाचनश्च । सत्त्वापहोऽसौ शिथिलत्वकारी निषेवितः पाण्डु करोति गात्रम् ॥६४॥
(९५ ) अम्लगुणाः-अम्लाभिधः प्रीतिकरो रुचिपदः प्रपाचनोऽग्नेः पटुतां च यच्छति । भ्रान्ति च कुष्ठं कफपाण्डुतां च कायं च कासं कुरुतेऽतिसेवितः ॥६५॥
( ९६ ) कटुगुणाः-कटुः कर्फ कण्ठजदोषशोफमन्दानिलचित्रगदान्निहन्ति । एषोऽपि दत्ते बहुसेवितश्चेत्क्षयावहो वीर्यवलक्षयं च ॥ ६६ ॥ (९७ ) द्वंद्वरसगुणाः कटुः कषायश्च कफापहारिणौ माधुर्यतिक्तावपि
१ झ. ढ. वहिवर्धनम् । २ ज. ट. सूर्यादिदाहक । ३ ज. ट. पटुः । ४ ज. श्च । रसितो नितरां जौं । ट. 'श्च । रसितोऽतितरां ज । ५ ज. ट. 'हं चाप्यसौ रो।
For Private and Personal Use Only