________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०५
१९ एकोनविंशो वर्गः] राजनिघण्टुः।
(२३) कङ्कः। कङ्कस्तु लोहपृष्ठः स्यात्संदंशवदनः खरः । रणालंकरणः क्रूरः स च स्यादामिषप्रियः ॥ १७॥
(२४ ) चर्मकी। चर्मकी चर्मपक्षी च चर्माकी चर्मगन्धिका । कृत्याशूकारिणी चर्मी चर्मपत्री च मेलिका ॥ १८॥
(२५) बकः। बकः कङ्को बकोटश्च तीर्थसेवी च तापसः । मीनघाती मृषाध्यानी निश्चलाद्मिश्च दाम्भिकः ॥ १९ ॥
(२६)शकुनी। शकुनी पोतकी श्यामा पाण्डवी श्वेतपक्षिणी ।
(२७) दुर्गा। दुर्गा भगवती चैव सैवोक्ता सत्यपाण्डवी ॥ २० ॥
(२८) बलाका। बलाका विषकण्ठी स्याच्छुष्काङ्गी दीर्घकंधरा ।
(२९) धर्मान्तः। धर्मान्तकामुकी श्वेता मेघानन्दा जलाश्रया ।
(३०) टिडिभी। *टिटिभी पीतपादश्च सदा लूता नृजागरः । निशाचरी चित्रपक्षी जलशायी सुचेतना ॥ २२॥
(३१) जलकुक्कुटकः । जलकुकुटकश्चान्यो जलशायी जलस्थितः।
(३२) ठिकः। 'ठिकः पाशगडो ठिक्को जलसार्यतिलाशयः । जलपक्षी महापक्षी जलसापतिवासकः(?) ॥ २३ ॥ * अयं श्लोको ज. ट. पुस्तकयोर्नास्ति । अयं श्लोको ज. ट. पुस्तकयो!पलभ्यते।
१ स. ढ. मेघनादा।
For Private and Personal Use Only