________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०४
परिशिष्टो
( १२ ) तन्तुवायादयः । तन्तुवायस्तूर्णनाभो लूता मैर्कटक: कृमिः । हालाहलस्त्वञ्जलिका सोता कुटिलकीटकः ॥ ९ ॥ वृश्चिकः शुककीटः स्यादलिद्रोणश्च वृश्चिके । ( १३ ) कर्णजलूका । अथ कर्णजलूका स्याच्चित्राङ्गी शतपद्यपि ॥ १० ॥ (१४) पिपीलिका |
पिपीलकः पिपीलच स्त्रीसंज्ञा च पिपीलिका | (१५) तैलपिपीलिका |
उदङ्घा कपिजद्धिका ज्ञेया तैलपिपीलिका ॥। ११ ॥ (१६) कृष्णपिपीलिका ।
कृष्णाऽन्या च पिपीली तु स्थूला वृक्षरुहा च सा ॥ ( १७ ) मत्कुणः ।
मत्कुणो रक्तपायी स्याद्रक्ताङ्गो मञ्चकाश्रयी ॥ १२ ॥ (१८) शिशुकनकौ ।
Acharya Shri Kailassagarsuri Gyanmandir
[ सिंहादि:
शिशुकः शिशुमारः स्यात्स च ग्राहो वराहकः । भवेन्नक्रस्तु कुम्भीरो गलग्राहो महाबलः ।। १३ ॥
(१९) जलूका ।
जलुका तु जलौका स्याद्रक्तपा रक्तपायिनी । रक्तसंदोहिका तीक्ष्णा वमनी जलजीविनी ॥ १४ ॥
(२०) जलकाकः ।
जलकाकस्तु दात्यूहः स च स्यात्कालकण्टकः । (२१) जलपारावतः ।
जलपारावत: कोपी प्रोक्तो जलकपोतकः ।। १५ ।। तथाच — स्थले करितुरङ्गाद्या यावन्तः सन्ति जन्तवः । जलेऽपि ते च तावन्तो ज्ञातव्या जलपूर्वकाः ॥ १६ ॥
For Private and Personal Use Only
(२२) काष्ठकुट्टः । काष्ठकुट्टः काष्ठभङ्गी काष्ठकूटश्च शब्दितः ।
१ झ. ढ. जन्तु' । २ झ. ढ. जन्तु । ३ ज. झ. द. कर्कटकः । ४ ज, उदया ।