________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०३
१९ एकोनविंशो वर्गः] राजनिघण्टुः ।
(३) *शल्यकः। शल्यकः स्याच्छल्यमृगो वज्रशुक्तिविलेशयः।
(४) शल्यतल्लोमनी। शल्योऽन्यः श्वाविदित्युक्तः शली च शलली च सः । शल्यलोम्नि तु विज्ञेया शलली शललं शलम् ॥ ३ ॥
(५) कोकडः। कोकडो जैवनः प्रोक्तः कोकोवाचो बिलेशयः । ज्ञेयश्चमरपुच्छश्च लोमशो धूम्रवर्णकः ॥४॥
(६) नकुलः । नकुलः सूचिरदनः सर्पारिोहिताननः।
(७) 'बर्द्धरी। बबुरी घोरिका घोरा दीर्घरूपा भयावहा । स्थूलचक्षुर्दीर्घपादा सर्पभक्षी गुणारिका ॥५॥
(८) ब्राह्मणी । ब्राह्मणी गृहगोधा च सुपदी रक्तपुच्छिका ।
(९) सरटः। सरटः कृकलासः स्यात्लतिसूर्यः शयानकः ॥ ६॥
(१०) 'जाहकः । जाहको गात्रसंकोची मण्डली बहुरूपकः । कामरूपी विरूपी च येलुवासः प्रकीर्तितः ॥७॥
(११) पल्ली । पल्ली तु मुसली प्रोक्ता गृहगोधा गृहालिका । ज्येष्ठा च कुड्यमत्स्या च पल्लिका गृहगोधिका ॥८॥
* खवले मांजर इति ख्याते । । घुणारी इति ख्याता । + येलसरडु इति प्रसिद्धः ।
१ज. 'शल्की बिले । २ ज, ट. जविनः । ३
For Private and Personal Use Only