________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
४०६ परिशिष्टो
[सिंहादिः(३३) जलशायी। [*जलशायी मण्डलीनो मन्दगः श्लेष्मलोऽविषी । सराजी राजिमन्तश्च (मांश्चापि ) जलसर्पः स दुन्दुभिः (डुण्डुभः ) ॥ २४ ॥ द्विविगोडो निसश्चैव चित्री शल्पी च गोमुखः।]
(३४) क्षुद्रसारसाः। अन्ये च प्लवगा ये ये ते सर्वे क्षुद्रसारसाः॥२५॥
(३५) चकोरः। चकोरश्चन्द्रिकापायी कौमुदीजीवनोऽपि सः । चातकस्तोककः सोऽपि सारङ्गो मेघजीवनः ॥२६॥
(३६) हारीतककपिञ्जलौ। हारीतकस्तु हारीतो गञ्जलश्च कपिञ्जलः।
(३७) धूसरी। 'धूसरी पिङ्गला सूची भैरवी योगिनी जया । कुमारी सुविचित्रा च माता कोटरवासिनी ॥ २७॥
(३८) तैलपाजिनपत्रिके। तैलपास्तु परोष्णी स्याज्जतुका जिनपत्रिका ।
(३९) खद्योततैलकीटौ। प्रभाकीटस्तु खद्योतः खज्योतिरुपसूर्यकः । तैलिनी तैलकीटः स्यात्षड्विम्बा दद्रुनाशिनी ॥२८॥
(४०) इन्द्रगोपः । शक्रगोपस्तु वर्षाभू रक्तवर्णेन्द्रगोपको ।
(४१) दंशः। दंशो दुष्टमुखः क्रूरः क्षुद्रिका वनमक्षिका । मक्षिका त्वमृतोत्पन्ना वमनी चापला च सा ॥ २९ ।।
* एतच्चिहगतं ज. ट. पुस्तकयोर्न दृश्यते । । अयं श्लोको ज. ट. पुस्तकयो स्ति ।
१ ज. ट. रीतस्तेजलस्तु क।
For Private and Personal Use Only