________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८ अष्टादशो वर्गः] राजनिघण्टुः ।
(७५) नाडी। सा त्वशिरोधिजा मन्या धमनी धरणी धरा । तन्तुकी जीवितज्ञा च नाडी सिंही च कीर्तिता ॥ ५८ ॥
(७६) महानाडी। कैण्डरा तु महास्नायुर्महानाडी च सा स्मृता ॥ ५९॥
(७७) शरीरास्थ्यादीनि । शरीरास्थि तु कङ्कालं स्यात्करकोऽस्थिपञ्जरः । स्रोतांसि खानि च्छिद्राणि कालखण्डं यकृन्मतम् ॥ ६० ॥ शिरोस्थि तु करोटिः स्याच्छिरस्त्राणं तु शीर्षकम् । तत्खण्डं खपरं प्राहुः कपालं च तदीरितम् ॥ ६१ ॥
(७८) पृष्ठास्थि । पृष्टास्थि तु कसेरुः स्याच्छलास्थि नलकं स्मृतम् ।
(७९) पार्थास्थि । पार्थास्थि पार्श्वकं प्रोक्तमिति देहाङ्गनिर्णयः ॥ ६२ ॥
(८०) आत्मा । आत्मा शरीरी क्षेत्रज्ञः पुद्गलः प्राण ईश्वरः । जीवो विभुः पुमानीशः सर्वज्ञः शंभुरव्ययः॥६३ ॥
(८१) प्रकृतिः । प्रधानं प्रकृतिर्माया शक्तिश्चैतन्यमित्यपि।
(८२) अहंकारः। अहंकारोऽभिमानः स्यादहंताऽहंमतिस्तथा ॥ ६४ ॥
(८३) मनः। मानसं हृदयं स्वान्तं चित्तं चेतो मनश्च हृत् ।
(८४) सत्त्वादिगुणाः। सत्त्वं रजस्तमश्चेति प्रोक्ताः पुंसस्त्रयो गुणाः ॥६५॥
(८५) अक्षिपञ्चकम् । श्रोत्रं त्वासना नेत्रं नासा चेत्यक्षिपञ्चकम् ।
१ झ. ढ. सल । २ झ, करण्डा ।
For Private and Personal Use Only