________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८ अष्टादशो वर्गः] राजनिघण्टुः।
(५६) भगः । गुदमुष्कद्वयोर्मध्ये पुंसामङ्गं भगः स्मृतः ।
(५७) अण्डकोशः। मुष्कोऽण्डमण्डकोशश्च वृषणो बीजपेशिका ॥ ४३ ॥
__ (५८) शिनोपस्थे। शिश्नं शेफश्च लिङ्गं च मे, साधनमेहने । योनिर्भगो वराङ्गं स्यादुपस्थं स्मरमन्दिरम् ॥४४॥
__ (५९) ऊरू । ऊरू तु सक्थिनी श्रोणिसक्योः संधिस्तु वङ्क्षणः । जङ्घोरुमध्यपर्व स्याजान्वष्ठीवच वैक्रियः ॥ ४५ ॥
(६०) जङ्घा । जङ्घा तु प्रसृता ज्ञेया तन्मध्ये पिण्डिका तथा ।
(६१) घुटिका। जङ्घाघिसंधिग्रन्थौ तु घुटिका गुल्फ इत्यपि ॥ १६ ॥
(६२) पाणिः । गुल्फस्याधस्तु पाणिः स्यात्पादाग्रं प्रपदं मतम् । विक्रमश्चरणः पादः पदधिश्च पदं क्रमः ॥ ४७॥
(६३ ) उत्सङ्गादीनि। क्रोडमङ्कस्तथोत्सङ्गः प्राग्भागो वपुषः स्मृतः ॥ ४८ ॥ करो भवेत्संहितविस्तृताङ्गुलस्तलश्चपेटः प्रतलः प्रहस्तकः । मुष्टिर्भवेत्संहृतपिण्डिताङ्गुलावाकुञ्चितोऽग्रे प्रसृतः प्रकीर्तितः ॥ ४९ ॥
(६४) प्रादेशावलिनामानि । स्यात्तर्जनी मध्यमिका त्वनामिका कनिष्ठिकाङ्गुष्टयुता यदा तदा । प्रादेशतालाभिधगोश्रवस्तथा वितस्तिरत्यर्थमिह क्रमादियम् ॥ ५० ॥
१ झ. ढ. 'ध्ये यो भागः स भ । २ झ. ढ, 'नी श्रेणिः स । ३ ज. चक्रिका । ट. चक्रिया।
४ झ. ढ, पीडिका।
For Private and Personal Use Only